मत्स्य पुराण · अध्याय 85
अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम्
यत्प्रदानान्नरः स्वर्गम् आप्नोति सुरपूजितम् ॥
उत्तमो दशभिर्भारैर् मध्यमः पञ्चभिर्मतः
त्रिभिर्भारैः कनिष्ठः स्यात् तदर्धेनाल्पवित्तवान् ॥
तद्वदामन्त्रणं पूजां हेमवृक्षसुरार्चनम्
विष्कम्भपर्वतांस्तद्वत् सरांसि वनदेवताः ॥
होमजागरणं तद्वल् लोकपालाधिवासनम्
धान्यपर्वतवत् कुर्याद् इमं मन्त्रमुदीरयेत् ॥
यथा देवेषु विश्वात्मा प्रवरो ऽयं जनार्दनः
सामवेदस्तु वेदानां महादेवस्तु योगिनाम् ॥
प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा
तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥
मम तस्मात्परां लक्ष्मीं गुडपर्वत देहि वै
यस्मात्सौभाग्यदायिन्या भ्राता त्वं गुडपर्वत
निवासश्चापि पार्वत्यास् तस्माच्छान्तिं प्रयच्छ मे ॥
अनेन विधिना यस्तु दद्याद्गुडमयं गिरिम्
पूज्यमानः स गन्धर्वैर् गौरीलोके महीयते ॥
ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत्
आयुरारोग्यसम्पन्नः शत्रुभिश्चापराजितः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0