भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 84

84.1

अथातः सम्प्रवक्ष्यामि लवणाचलमुत्तमम्
यत्प्रदानान्नरो लोकान् आप्नोति शिवसंयुतान् ॥

84.2

उत्तमः षोडशद्रोणैः कर्तव्यो लवणाचलः
मध्यमः स्यात्तदर्धेन चतुर्भिरधमः स्मृतः ॥

84.3

वित्तहीनो यथाशक्त्या द्रोणादूर्ध्वं तु कारयेत्
चतुर्थांशेन विष्कम्भ पर्वतान्कारयेत्पृथक् ॥

84.4

विधानं पूर्ववत्कुर्याद् ब्रह्मादीनां च सर्वदा
तद्वद्धेममयान्सर्वांल् लोकपालान्निवेशयेत् ॥

84.5

सरांसि कामदेवादींस् तद्वदत्रापि कारयेत्
कुर्याज्जागरणं चापि दानमन्त्रान्निबोधत ॥

84.6

सौभाग्यसरः सम्भूतो यतो ऽयं लवणो रसः
तद्दानकर्तृकत्वेन त्वं मां पाहि नगोत्तम ॥

84.7

यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना
प्रियं च शिवयोर्नित्यं तस्माच्छान्तिं प्रयच्छ मे ॥

84.8

विष्णुदेहसमुद्भूतं यस्मादारोग्यवर्धनम्
तस्मात्पर्वतरूपेण पाहि संसारसागरात् ॥

84.9

अनेन विधिना यस्तु दद्याल्लवणपर्वतम्
उमालोके वसेत्कल्पं ततो याति परां गतिम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc