भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 83

83.1

भगवञ्छ्रोतुमिच्छामि दानमाहात्म्यमुत्तमम्
यदक्षयं परे लोके देवर्षिगणपूजितम् ॥

83.2

मेरोः प्रदानं वक्ष्यामि दशधा मुनिपुंगव
यत्प्रदानान्नरो लोकान् आप्नोति सुरपूजितान् ॥

83.3

पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च
न तत्फलमधीतेषु कृतेष्विह यदश्नुते ॥

83.4

तस्माद्विधानं वक्ष्यामि पर्वतानामनुक्रमात्
प्रथमो धान्यशैलः स्याद् द्वितीयो लवणाचलः ॥

83.5

गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः
पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः ॥

83.6

सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः
राजतो नवमस्तद्वद् दशमः शर्कराचलः ॥

83.7

वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥

83.8

शुक्लपक्षे तृतीयायाम् उपरागे शशिक्षये
विवाहोत्सवयज्ञेषु द्वादश्यामथ वा पुनः ॥

83.9

शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः
धान्यशैलादयो देया यथाशास्त्रं विजानता ॥

83.10

तीर्थेष्वायतने वापि गोष्ठे वा भवनाङ्गणे
मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्मुखम्
प्रागुदक्प्रवणं तद्वत् प्राङ्मुखं च विधानतः ॥

83.11

गोमयेनानुलिप्तायां भूमावास्तीर्य वै कुशान्
तन्मध्ये पर्वतं कुर्याद् विष्कम्भपर्वतान्वितम् ॥

83.12

धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः
मध्यमः पञ्चशतिकः कनिष्ठः स्यात् त्रिभिः शतैः ॥

83.13

मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात्
पूर्वेण मुक्ताफलवज्रयुक्तो याग्येन गोमेदकपुष्परागैः ॥

83.14

पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैदूर्यसरोजरागैः
श्रीखण्डखण्डैरभितः प्रवालैर् लतान्वितः शुक्तिशिलातलः स्यात् ॥

83.15

ब्रह्माथ विष्णुर्भगवान्पुरारिर् दिवाकरो ऽप्यत्र हिरण्मयः स्यात्
मूर्धन्यवस्थानममत्सरेण कार्यं त्वनेकैश्च पुनर्द्विजौघैः ॥

83.16

चत्वारि शृङ्गाणि च राजतानि नितम्बभागेष्वपि राजतः स्यात्
तथेक्षुवंशावृतकन्दरस्तु घृतोदकप्रस्रवणैश्च दिक्षु ॥

83.17

शुक्लाम्बराण्यम्बुधरावली स्यात् पूर्वेण पीतानि च दक्षिणेन
वासांसि पश्चादथ कर्बुराणि रक्तानि चैवोत्तरतो घनाली ॥

83.18

रौप्यान्महेन्द्रप्रमुखांस् तथाष्टौ संस्थाप्य लोकाधिपतीन्क्रमेण
नानाफलाली च समन्ततः स्यान् मनोरमं माल्यविलेपनं च ॥

83.19

वितानकं चोपरि पञ्चवर्णम् अम्लानपुष्पाभरणं सितं च
इत्थं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कम्भगिरीन् क्रमेण ॥

83.20

तुरीयभागेण चतुर्दिशं च संस्थापयेत्पुष्पविलेपनाढ्यान्
पूर्वेण मन्दरमनेकफलावलीभिर् युक्तं यवैः कनकभद्रकदम्बचिह्नैः ॥

83.21

कामेन काञ्चनमयेन विराजमानम् आकारयेत्कुसुमवस्त्रविलेपनाढ्यम्
क्षीरारुणोदसरसाथ वनेन चैवं रौप्येण शक्तिघटितेन विराजमानम् ॥

83.22

याम्येन गन्धमदनश्च निवेशनीयो गोधूमसंचयमयः कलधौतयुक्तः
हैमेन यज्ञपतिना घृतमानसेन वस्त्रैश्च राजतवनेन च संयुतः स्यात् ॥

83.23

पश्चात् तिलाचलम् अनेकसुगन्धिपुष्प सौवर्णपिप्पलहिरण्मयहंसयुक्तम्
आकारयेद्रजतपुष्पवनेन तद्वद् वस्त्रान्वितं दधिसितोदसरस् तथाग्रे ॥

83.24

संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सुवस्त्रम्
पुष्पैश्च हेमवटपादपशेखरं तम् आकारयेत् कनकधेनुविराजमानम् ॥

83.25

माक्षीकभद्रसरसाथ वनेन तद्वद् रौप्येण भास्वरवता च युतं विधाय
होमश्चतुर्भिरथ वेदपुराणविद्भिर् दान्तैर् अनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः ॥

83.26

पूर्वेण हस्तमितमत्र विधाय कुण्डं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च
रात्रौ च जागरमनुद्धतगीततूर्यैर् आवाहनं च कथयामि शिलोच्चयानाम् ॥

83.27

त्वं सर्वदेवगणधामनिधे विरुद्धम् अस्मद्गृहेष्वमरपर्वत नाशयाशु
क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां नः सम्पूजितः परमभक्तिमता मया हि ॥

83.28

त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः
मूर्तामूर्तात्परं बीजम् अतः पाहि सनातन ॥

83.29

यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मन्दिरम्
रुद्रादित्यवसूनां च तस्माच्छान्तिं प्रयच्छ मे ॥

83.30

यस्मादशून्यममरैर् नारीभिश्च शिवेन च
तस्मान्माम् उद्धराशेष दुःखसंसारसागरात् ॥

83.31

एवमभ्यर्च्य तं मेरुं मन्दरं चाभिपूजयेत्
यस्माच्चैत्ररथेन त्वं भद्राश्वेन च वर्षतः ॥

83.32

शोभसे मन्दर क्षिप्रम् अतस्तुष्टिकरो भव
यस्माच्चूडामणिर्जम्बू द्वीपे त्वं गन्धमादन ॥

83.33

गन्धर्ववनशोभावान् अतः कीर्तिर्दृढास्तु मे
यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च ॥

83.34

हिरण्मयाश्वत्थशिरास् तस्मात्पुष्टिर्ध्रुवास्तु मे
उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन च ॥

83.35

सुपार्श्व राजसे नित्यम् अतः श्रीरक्षयास्तु मे
एवमामन्त्र्य तान्सर्वान् प्रभाते विमले पुनः ॥

83.36

स्नात्वाथ गुरवे दद्यान् मध्यमं पर्वतोत्तमम्
विष्कम्भपर्वतान्दद्याद् ऋत्विग्भ्यः क्रमशो मुने ॥

83.37

गाश्च दद्याच्चतुर्विंशत् यथवा दश नारद
नव सप्त तथाष्टौ वा पञ्च दद्याद् अशक्तिमान् ॥

83.38

एकापि गुरवे देया कपिला च पयस्विनी
पर्वतानामशेषाणाम् एष एव विधिः स्मृतः ॥

83.39

त एव पूजने मन्त्रास् त एवोपस्करा मताः
ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वदा ॥

83.40

स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते
उपवासी भवेन्नित्यम् अशक्ते नक्तमिष्यते ॥

83.41

विधानं सर्वशैलानां क्रमशः शृणु नारद
दानकाले च ये मन्त्राः पर्वतेषु च यत्फलम् ॥

83.42

अन्नं ब्रह्म यतः प्रोक्तम् अन्ने प्राणाः प्रतिष्ठिताः
अन्नाद्भवन्ति भूतानि जगदन्नेन वर्तते ॥

83.43

अन्नमेव ततो लक्ष्मीर् अन्नमेव जनार्दनः
धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम ॥

83.44

अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम्
मन्वन्तरशतं साग्रं देवलोके महीयते ॥

83.45

अप्सरोगणगन्धर्वैर् आकीर्णेन विराजता
विमानेन दिवः पृष्ठम् आयाति स्म निषेवित
धर्मक्षये राजराज्यम् आप्नोतीह न संशयः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc