भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 82

82.1

गुडधेनुविधानं मे समाचक्ष्व जगत्पते
किंरूपं केन मन्त्रेण दातव्यं तदिहोच्यताम् ॥

82.2

गुडधेनुविधानस्य यद्रूपमिह यत्फलम्
तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनम् ॥

82.3

कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि
गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः ॥

82.4

लघ्वेणकाजिनं तद्वद् वत्सं च परिकल्पयेत्
प्राङ्मुखीं कल्पयेद्धेनुम् उदक्पादां सवत्सकाम् ॥

82.5

उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयम्
वत्सं भारेण कुर्वीत द्वाभ्यां वै मध्यमा स्मृता ॥

82.6

अर्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु
चतुर्थांशेन वत्सः स्याद् गृहवित्तानुसारतः ॥

82.7

धेनुवत्सौ घृतास्यौ च सितसूक्ष्माम्बरावृतौ
शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ ॥

82.8

सितसूत्रशिरालौ तौ सितकम्बलकम्बलौ
ताम्रगण्डकपृष्ठौ तौ सितचामररोमकौ ॥

82.9

विद्रुमभ्रूयुगोपेतौ नवनीतस्तनावुभौ
क्षौमपुच्छौ कांस्यदोहाव् इन्द्रनीलकतारकौ ॥

82.10

सुवर्णशृङ्गाभरणौ राजतैः खुरसंयुतौ
नानाफलसमायुक्तौ घ्राणगन्धकरण्डकौ
इत्येवं रचयित्वा तौ धूपदीपैरथार्चयेत् ॥

82.11

या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता
धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ॥

82.12

देहस्था या च रुद्राणी शंकरस्य सदा प्रिया
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥

82.13

विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः
चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये ॥

82.14

चतुर्मुखस्य या लक्ष्मीर् या लक्ष्मीर्धनदस्य च
लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्तु मे ॥

82.15

स्वधा या पितृमुख्याणां स्वाहा यज्ञभुजां च या
सर्वपापहरा धेनुस् तस्माच्छान्तिं प्रयच्छ मे ॥

82.16

एवमामन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत्
विधानमेतद्धेनूनां सर्वासाम् अभिपठ्यते ॥

82.17

यास्ताः पापविनाशिन्यः पठ्यन्ते दश धेनवः
तासां स्वरूपं वक्ष्यामि नामानि च नराधिप ॥

82.18

प्रथमा गुडधेनुः स्याद् घृतधेनुस् तथापरा
तिलधेनुस्तृतीया तु चतुर्थी जलसंज्ञिता ॥

82.19

क्षीरधेनुश्च विख्याता मधुधेनुस्तथा परा
सप्तमी शर्कराधेनुर् दधिधेनुस्तथाष्टमी
रसधेनुश्च नवमी दशमी स्यात् स्वरूपतः ॥

82.20

कुम्भाः स्युर्द्रवधेनूनाम् इतरासां तु राशयः
सुवर्णधेनुमप्यत्र केचिदिच्छन्ति भानवः ॥

82.21

नवनीतेन रत्नैश्च तथान्ये तु महर्षयः
एतदेवंविधानं स्यात् त एवोपस्कराः स्मृताः ॥

82.22

मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि
यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ॥

82.23

गुडधेनुप्रसङ्गेन सर्वास्तावन्मयोदिताः
अशेषयज्ञफलदाः सर्वाः पापहराः शुभाः ॥

82.24

व्रतानामुत्तमं यस्माद् विशोकद्वादशीव्रतम्
तदङ्गत्वेन चैवात्र गुडधेनुः प्रशस्यते ॥

82.25

अयने विषुवे पुण्ये व्यतीपाते ऽथवा पुनः
गुडधेन्वादयो देयास् तूपरागादिपर्वसु ॥

82.26

विशोकद्वादशी चैषा पुण्या पापहरा शुभा
यामुपोष्य नरो याति तद्विष्णोः परमं पदम् ॥

82.27

इह लोके च सौभाग्यम् आयुरारोग्यमेव च
वैष्णवं पुरमाप्नोति मरणे च स्मरन्हरिम् ॥

82.28

नवार्बुदसहस्राणि दश चाष्टौ च धर्मवित्
न शोकदुःखदौर्गत्यं तस्य संजायते नृप ॥

82.29

नारी वा कुरुते या तु विशोकद्वादशीव्रतम्
नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयात् ॥

82.30

तस्मादग्रे हरेर्नित्यम् अनन्तं गीतवादनम्
कर्तव्यं भूतिकामेन भक्त्या तु परया नृप ॥

82.31

इति पठति य इत्थं यः शृणोतीह सम्यङ् मधुमुरनरकारेर् अर्चनं यश्च पश्येत्
मतिमाप च जनानां यो ददातीन्द्रलोके वसति स विबुधौघैः पूज्यते कल्पमेकम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc