मत्स्य पुराण · अध्याय 81
किम् अभीष्टवियोगशोकसंघादलम् उद्धर्तुमुपोषणं व्रतं वा
विभवोद्भवकारि भूतले ऽस्मिन् भवभीतेरपि सूदनं च पुंसः ॥
परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभं महत्त्वात्
तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरमानवेषु गुह्यम् ॥
पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम्
दशम्यां लघुभुग्विद्वान् आरभेन्नियमेन तु ॥
उदङ्मुखः प्राङ्मुखो वा दन्तधावनपूर्वकम्
एकादश्यां निराहारः समभ्यर्च्य तु केशवम्
श्रियं वाभ्यर्च्य विधिवद् भोक्ष्यामि त्वपरे ऽहनि ॥
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः
स्नानं सर्वौषधैः कुर्यात् पञ्चगव्यजलेन तु
शुक्लमाल्याम्बरधरः पूजयेच्छ्रीशमुत्पलैः ॥
विशोकाय नमः पादौ जङ्घे च वरदाय वै
श्रीशाय जानुनी तद्वद् ऊरू च जलशायिने ॥
कन्दर्पाय नमो गुह्यं माधवाय नमः कटिम्
दामोदरायेत्युदरं पार्श्वे च विपुलाय वै ॥
नाभिं च पद्मनाभाय हृदयं मन्मथाय वै
श्रीधराय विभोर्वक्षः करौ मधुजिते नमः ॥
चक्रिणे वामबाहुं च दक्षिणं गदिने नमः
वैकुण्ठाय नमः कण्ठम् आस्यं यज्ञमुखाय वै ॥
नासामशोकनिधये वासुदेवाय चाक्षिणी
ललाटं वामनायेति हरये च पुनर्भ्रुवौ ॥
अलकान्माधवायेति किरीटं विश्वरूपिणे
नमः सर्वात्मने तद्वच् छिर इत्यभिपूजयेत् ॥
एवं सम्पूज्य गोविन्दं फलमाल्यानुलेपनैः
ततस्तु मण्डलं कृत्वा स्थण्डिलं कारयेन्मुदा ॥
चतुरस्रं समन्ताच्च रत्निमात्रमुदक्प्लवम्
श्लक्ष्णं हृद्यं च परितो वप्रत्रयसमावृतम् ॥
अङ्गुलेनोच्छ्रिता वप्रास् तद्विस्तारस्तु द्व्यङ्गुलः
स्थण्डिलस्योपरिष्टाच्च भित्तिरष्टाङ्गुला भवेत् ॥
नदीवालुकया शूर्पे लक्ष्म्याः प्रतिकृतिं न्यसेत्
स्थण्डिले शूर्पमारोप्य लक्ष्मीमित्यर्चयेद्बुधः ॥
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै
नमः पुष्ट्यै नमस्तुष्ट्यै वृष्ट्यै हृष्ट्यै नमो नमः ॥
विशोका दुःखनाशाय विशोका वरदास्तु मे
विशोका चास्तु सम्पत्त्यै विशोका सर्वसिद्धये ॥
ततः शुक्लाम्बरैः शूर्पं वेष्ट्य सम्पूजयेत्फलैः
वस्त्रैर्नानाविधैस्तद्वत् सुवर्णकमलेन च ॥
रजनीषु च सर्वासु पिबेद्दर्भोदकं बुधः
ततस्तु गीतनृत्यादि कारयेत्सकलां निशाम् ॥
यामत्रये व्यतीते तु सुप्त्वाप्युत्थाय मानवः
अभिगम्य च विप्राणां मिथुनानि तदार्चयेत् ॥
शक्तितस् त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः
शयनस्थानि पूज्यानि नमो ऽस्तु जलशायिने ॥
ततस्तु गीतवाद्येन रात्रौ जागरणे कृते
प्रभाते च ततः स्नानं कृत्वा दाम्पत्यमर्चयेत् ॥
भोजनं च यथाशक्त्या वित्तशाठ्यविवर्जितः
भुक्त्वा श्रुत्वा पुराणानि तद्दिनं चातिवाहयेत् ॥
अनेन विधिना सर्वं मासि मासि समाचरेत्
व्रतान्ते शयनं दद्याद् गुडधेनुसमन्वितम्
सोपधानकविश्रामं सास्तरावरणं शुभम् ॥
यथा न लक्ष्मीर्देवेश त्वां परित्यज्य गच्छति
तथा सुरूपतारोग्यम् अशोकश्चास्तु मे सदा ॥
यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित्
तथा विशोकता मे ऽस्तु भक्तिरग्र्या च केशवे ॥
मन्त्रेणानेन शयनं गुडधेनुसमन्वितम्
शूर्पं च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता ॥
उत्पलं करवीरं च बाणमम्लानकुङ्कुमम्
केतकी सिन्दुवारं च मल्लिका गन्धपाटला
कदम्बं कुब्जकं जातिः शस्तान्येतानि सर्वदा ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0