भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 80

80.1

अथान्यामपि वक्ष्यामि शोभनां शुभसप्तमीम्
यामुपोष्य नरो रोग शोकदुःखैः प्रमुच्यते ॥

80.2

पुण्येन चाश्वयुजे मासि कृतस्नानजपः शुचिः
वाचयित्वा ततो विप्रान् आरभेच्छुभसप्तमीम् ॥

80.3

कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः
नमामि सूर्यसम्भूताम् अशेषभुवनालयाम्
त्वामहं शुभकल्याण शरीरां सर्वसिद्धये ॥

80.4

अथ कृत्वा तिलप्रस्थं ताम्रपात्रेण संयुतम्
काञ्चनं वृषभं तद्वद् गन्धमाल्यगुडान्वितैः ॥

80.5

फलैर् नानाविधैर् भक्ष्यैर् घृतपायससंयुतैः
दद्याद्द्विकालवेलायाम् अर्यमा प्रीयतामिति ॥

80.6

पञ्चगव्यं च संप्राश्य स्वपेद्भूमौ विमत्सरः
ततः प्रभाते संजाते भक्त्या सम्पूजयेद्द्विजान् ॥

80.7

अनेन विधिना दद्यान् मासि मासि सदा नरः
वाससा वृषभं हैमं तद्वद्गां काञ्चनोद्भवाम् ॥

80.8

संवत्सरान्ते शयनम् इक्षुदण्डगुडान्वितम्
सोपधानकविश्रामं भाजनासनसंयुतम् ॥

80.9

ताम्रपात्रे तिलप्रस्थं सौवर्णं वृषभं तथा
दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति ॥

80.10

अनेन विधिना विद्वान् कुर्याद्यः शुभसप्तमीम्
तस्य श्रीर्विपुला कीर्तिर् भवेज्जन्मनि जन्मनि ॥

80.11

अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये
वसेद्गणाधिपो भूत्वा यावदाभूतसंप्लवम्
कल्पादाववतीर्णस्तु सप्तद्वीपाधिपो भवेत् ॥

80.12

ब्रह्महत्यासहस्रस्य भ्रूणहत्याशतस्य च
नाशायालमियं पुण्या पठ्यते शुभसप्तमी ॥

80.13

इमां पठेद्यः शृणुयान्मुहूर्तं पश्येत्प्रसङ्गादपि दीयमानम्
सो ऽप्यत्र सर्वाघविमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम् ॥

80.14

यावत्समाः सप्त नरः करोति यः सप्तमीं सप्तविधानयुक्ताम्
स सप्तलोकाधिपतिः क्रमेण भूत्वा पदं याति परं मुरारेः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc