भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 79

79.1

अथातः सम्प्रवक्ष्यामि सर्वपापप्रणाशिनीम्
सर्वकामप्रदां रम्यां नाम्ना मन्दारसप्तमीम् ॥

79.2

माघस्यामलपक्षे तु पञ्चम्यां लघुभुङ्नरः
दन्तकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्बुधः ॥

79.3

विप्रान् सम्पूजयित्वा तु मन्दारं प्राशयेन्निशि
ततः प्रभात उत्थाय कृत्वा स्नानं पुनर्द्विजान् ॥

79.4

भोजयेच्छक्तितः कृत्वा मन्दारकुसुमाष्टकम्
सौवर्णं पुरुषं तद्वत् पद्महस्तं सुशोभनम् ॥

79.5

पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रे ऽष्टपत्त्रकम्
हैममन्दारकुसुमैर् भास्करायेति पूर्वतः ॥

79.6

नमस्कारेण तद्वच्च सूर्यायेत्यानले दले
दक्षिणे तद्वदर्काय तथार्यम्णे च नैरृते ॥

79.7

पश्चिमे वेदधाम्ने च वायव्ये चण्डभानवे
पूष्णेत्युत्तरतः पूज्यम् आनन्दायेत्यतः परम् ॥

79.8

कर्णिकायां च पुरुषं सर्वात्मन इति न्यसेत्
शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः ॥

79.9

एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः
भुञ्जीतातैललवणं वाग्यतः प्राङ्मुखो गृही ॥

79.10

अनेन विधिना सर्वं सप्तम्यां मासि मासि च
कुर्यात्संवत्सरं यावद् वित्तशाठ्यविवर्जितः ॥

79.11

एतदेव व्रतान्ते तु निधाय कलशोपरि
गोभिर्विभवतः सार्धं दातव्यं भूतिमिच्छता ॥

79.12

नमो मन्दारनाथाय मन्दारभवनाय च
त्वं रवे तारयस्वास्मान् संसारभयसागरात् ॥

79.13

अनेन विधिना यस्तु कुर्यान्मन्दारसप्तमीम्
विपाप्मा स सुखी मर्त्यः कल्पं च दिवि मोदते ॥

79.14

इमामघौघपटल भीषणध्वान्तदीपिकाम्
गच्छन्प्रगृह्य संसारे सर्वार्थांश्च लभेन्नरः ॥

79.15

मन्दारसप्तमीम् एताम् ईप्सितार्थफलप्रदाम्
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc