मत्स्य पुराण · अध्याय 78
अतः परं प्रवक्ष्यामि तद्वत्कमलसप्तमीम्
यस्याः संकीर्तनादेव तुष्यतीह दिवाकरः ॥
वसन्तामलसप्तम्यां स्नातः सन्गौरसर्षपैः
तिलपात्रे च सौवर्णे विधाय कमलं शुभम् ॥
वस्त्रयुग्मावृतं कृत्वा गन्धपुष्पैः समर्चयेत्
नमः कमलहस्ताय नमस्ते विश्वधारिणे ॥
दिवाकर नमस्तुभ्यं प्रभाकर नमो ऽस्तु ते
ततो द्विकालवेलायाम् उदकुम्भसमन्विताम् ॥
विप्राय दद्यात्सम्पूज्य वस्त्रमाल्यविभूषणैः
शक्त्या च कपिलां दद्याद् अलंकृत्य विधानतः ॥
अहोरात्रे गते पश्चाद् अष्टम्यां भोजयेद्द्विजान्
यथाशक्त्यथ भुञ्जीत मांसतैलविवर्जितम् ॥
अनेन विधिना शुक्ल सप्तम्यां मासि मासि च
सर्वं समाचरेद्भक्त्या वित्तशाठ्यविवर्जितः ॥
व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितम्
गां च दद्यात्स्वशक्त्या तु सुवर्णाढ्यां पयस्विनीम् ॥
भाजनासनदीपादीन् दद्याद् इष्टानुपस्करान्
अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम्
लक्ष्मीमनन्तामभ्येति सूर्यलोके महीयते ॥
कल्पे कल्पे ततो लोकान् सप्तगत्वा पृथक्पृथक्
अप्सरोभिः परिवृतस् ततो याति परां गतिम् ॥
यः पश्यतीदं शृणुयाच्च मर्त्यः पठेच्च भक्त्याथ मतिं ददाति
सो ऽप्यत्र लक्ष्मीमचलामवाप्य गन्धर्वविद्याधरलोकभाक्स्यात् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0