भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 77

77.1

शर्करासप्तमीं वक्ष्ये तद्वत्कल्मषनाशिनीम्
आयुरारोग्यमैश्वर्यं ययानन्तं प्रजायते ॥

77.2

माधवस्य सिते पक्षे सप्तम्यां नियतव्रतः
प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनः ॥

77.3

स्थण्डिले पद्ममालिख्य कुङ्कुमेन सकर्णिकम्
तस्मिन्नमः सवित्रे तु गन्धधूपौ निवेदयेत् ॥

77.4

स्थापयेदुदकुम्भं च शर्करापात्रसंयुतम्
शुक्लवस्त्रैरलंकृत्य शुक्लमाल्यानुलेपनैः
सुवर्णेन समायुक्तं मन्त्रेणानेन पूजयेत् ॥

77.5

विश्ववेदमयो यस्माद् वेदवादीति पठ्यसे
सर्वस्यामृतमेव त्वम् अतः शान्तिं प्रयच्छ मे ॥

77.6

पञ्चगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ
सौरसूक्तं स्मरन्नास्ते पुराणश्रवणेन च ॥

77.7

अहोरात्रे गते पश्चाद् अष्टम्यां कृतनैत्यकः
तत्सर्वं विदुषे तद्वद् ब्राह्मणाय निवेदयेत् ॥

77.8

भोजयेच्छक्तितो विप्राञ् छर्कराघृतपायसैः
भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः ॥

77.9

अनेन विधिना सर्वं मासि मासि समाचरेत्
संवत्सरान्ते शयनं शर्कराकलशान्वितम् ॥

77.10

सर्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम्
गृहं च शक्तिमान्दद्यात् समस्तोपस्करान्वितम् ॥

77.11

सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा
दशभिर्वाथ निष्केण तदर्धेनापि शक्तितः ॥

77.12

सुवर्णाश्वः प्रदातव्यः पूर्ववन्मन्त्रवादनम्
न वित्तशाठ्यं कुर्वीत कुर्वन्दोषं समश्नुते ॥

77.13

अमृतं पिबतो वक्त्रात् सूर्यस्यामृतबिन्दवः
निपेतुर्ये धरण्यां तु शालिमुद्गेक्षवः स्मृताः ॥

77.14

शर्करा तु परा तस्माद् इक्षुसारो ऽमृतात्मवान्
इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः ॥

77.15

शर्करासप्तमी चेयं वाजिमेधफलप्रदा
सर्वदुष्टप्रशमनी पुत्रपौत्रप्रवर्धिनी ॥

77.16

यः कुर्यात्परया भक्त्या स वै सद्गतिमाप्नुयात्
कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम् ॥

77.17

इदमनघं शृणोति यः स्मरेद्वा परिपठतीह दिवाकरस्य लोके
मतिमपि च ददाति सो ऽपि देवैर् अमरवधूजनमालयाभिपूज्यः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc