भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 76

76.1

अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम्
यामुपोष्य नरः पापाद् विमुक्तः स्वर्गभाग्भवेत् ॥

76.2

मार्गशीर्षे शुभे मासि सप्तम्यां नियतव्रतः
तामुपोष्याथ कमलं कारयित्वा तु काञ्चनम् ॥

76.3

शर्करासंयुतं दद्याद् ब्राह्मणाय कुटुम्बिने
रविं काञ्चनकं कृत्वा पलस्यैकस्य धर्मवित्
दद्याद्द्विकालवेलायां भानुर्मे प्रीयतामिति ॥

76.4

भक्त्या तु विप्रान्सम्पूज्य चाष्टम्यां क्षीरभोजनम्
दत्त्वा कुर्यात्फलयुतं यावत्स्यात्कृष्णेसप्तमी ॥

76.5

तामप्युपोष्य विधिवद् अनेनैव क्रमेण तु
तद्वद्धैमफलं दत्त्वा सुवर्णकमलान्वितम् ॥

76.6

शर्करापात्रसंयुक्तं वस्त्रमाल्यसमन्वितम्
संवत्सरं च तेनैव विधिनोभयसप्तमीम् ॥

76.7

उपोष्य दत्त्वा क्रमशः सूर्यमन्त्रमुदीरयेत्
भानुरर्को रविर्ब्रह्मा सूर्यः शक्रो हरिः शिवः
श्रीमान्विभावसुस्त्वष्टा वरुणः प्रीयतामिति ॥

76.8

प्रतिमासं च सप्तम्याम् एकैकं नाम कीर्तयेत्
प्रतिपक्षं फलत्यागम् एतत्कुर्वन्समाचरेत् ॥

76.9

व्रतान्ते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः
शर्कराकलशं दद्याद् धेमपद्मदलान्वितम् ॥

76.10

यथा न विफलाः कामास् त्वद्भक्तानां सदा रवे
तथानन्तफलावाप्तिर् अस्तु मे सप्तजन्मसु ॥

76.11

इमामनन्तफलदां यः कुर्यात्फलसप्तमीम्
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥

76.12

सुरापानादिकं किंचिद् यदत्रामुत्र वा कृतम्
तत्सर्वं नाशमायाति यः कुर्यात्फलसप्तमीम् ॥

76.13

कुर्वाणः सप्तमीं चेमां सततं रोगवर्जितः
भूतान्भव्यांश्च पुरुषांस् तारयेदेकविंशतिम्
यः शृणोति पठेद्वापि सो ऽपि कल्याणभाग्भवेत् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc