मत्स्य पुराण · अध्याय 75
विशोकसप्तमीं तद्वद् वक्ष्यामि मुनिपुंगव
यामुपोष्य नरः शोकं न कदाचिदिहाश्नुते ॥
माघे कृष्णतिलैः स्नात्वा षष्ठ्यां वै शुक्लपक्षतः
कृताहारः कृसरया दन्तधावनपूर्वकम्
उपवासव्रतं कृत्वा ब्रह्मचारी भवेन्निशि ॥
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः
कृत्वा तु काञ्चनं पद्मम् अर्कायेति च पूजयेत्
करवीरेण रक्तेन रक्तवस्त्रयुगेन च ॥
यथा विशोकं भुवनं त्वयैवादित्य सर्वदा
तथा विशोकता मे ऽस्तु त्वद्भक्तिः प्रतिजन्म च ॥
एवं सम्पूज्य षष्ठ्यां तु भक्त्या सम्पूजयेद्द्विजान्
सुप्त्वा संप्राश्य गोमूत्रम् उत्थाय कृतनैत्यकः ॥
सम्पूज्य विप्रानन्नेन गुडपात्रसमन्वितम्
तद्वस्त्रयुग्मं पद्मं च ब्राह्मणाय निवेदयेत् ॥
अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः
ततः पुराणश्रवणं कर्तव्यं भूतिमिच्छता ॥
अनेन विधिना सर्वम् उभयोरपि पक्षयोः
कृत्वा यावत्पुनर्माघ शुक्लपक्षस्य सप्तमी ॥
व्रतान्ते कलशं दद्यात् सुवर्णकमलान्वितम्
शय्यां सोपस्करां दद्यात् कपिलां च पयस्विनीम् ॥
अनेन विधिना यस्तु वित्तशाठ्यविवर्जितः
विशोकसप्तमीं कुर्यात् स याति परमां गतिम् ॥
यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेत्
तावन्न शोकमभ्येति रोगदौर्गत्यवर्जितः ॥
यं यं प्रार्थयते कामं तं तमाप्नोति पुष्कलम्
निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति ॥
यः पठेच्छृणुयाद्वापि विशोकाख्यां च सप्तमीम्
सो ऽपीन्द्रलोकमाप्नोति न दुःखी जायते क्वचित् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0