भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 74

74.1

भगवन् भवसंसार सागरोत्तारकारक
किंचिद्व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम् ॥

74.2

सौरं धर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम्
विशोकसप्तमीं तद्वत् फलाढ्यां पापनाशिनीम् ॥

74.3

शर्करासप्तमीं पुण्यां तथा कमलसप्तमीम्
मन्दारसप्तमीं तद्वच् छुभदां शुभसप्तमीम् ॥

74.4

सर्वानन्तफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः
विधानमासां वक्ष्यामि यथावदनुपूर्वशः ॥

74.5

यदा तु शुक्लसप्तम्याम् आदित्यस्य दिनं भवेत्
सा तु कल्याणिनी नाम विजया च निगद्यते ॥

74.6

प्रातर्गव्येन पयसा स्नानमस्यां समाचरेत्
ततः शुक्लाम्बरः पद्मम् अक्षताभिः प्रकल्पयेत् ॥

74.7

प्राङ्मुखो ऽष्टदलं मध्ये तद्वद्वृत्तां च कर्णिकाम्
पुष्पाक्षताभिर्देवेशं विन्यसेत्सर्वतः क्रमात् ॥

74.8

पूर्वेण तपनायेति मार्तण्डायेति चानले
याम्ये दिवाकरायेति विधात्र इति नैरृते ॥

74.9

पश्चिमे वरुणायेति भास्करायेति चानिले
सौम्ये विकर्तनायेति रवये चाष्टमे दले ॥

74.10

आदावन्ते च मध्ये च नमो ऽस्तु परमात्मने
मन्त्रैरेभिः समभ्यर्च्य नमस्कारान्तदीपितैः ॥

74.11

शुक्लवस्त्रैः फलैर्भक्ष्यैर् धूपमाल्यानुलेपनैः
स्थण्डिले पूजयेद्भक्त्या गुडेन लवणेन च ॥

74.12

ततो व्याहृतिमन्त्रेण विसृजेद्द्विजपुंगवान्
शक्तितः पूजयेद्भक्त्या गुडक्षीरघृतादिभिः
तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत् ॥

74.13

एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः
कृतस्नानजपो विप्रैः सहैव घृतपायसम् ॥

74.14

भुक्त्वा च वेदविदुषे बिडालव्रतवर्जिते
घृतपात्रं सकनकं सोदकुम्भं निवेदयेत् ॥

74.15

प्रीयतामत्र भगवान् परमात्मा दिवाकरः
अनेन विधिना सर्वं मासि मासि व्रतं चरेत् ॥

74.16

ततस्त्रयोदशे मासि गा वै दद्यात्त्रयोदश
वस्त्रालंकारसंयुक्ताः सुवर्णास्याः पयस्विनीः ॥

74.17

एकामपि प्रदद्याद्वा वित्तहीनो विमत्सरः
न वित्तशाठ्यं कुर्वीत यतो मोहात्पतत्यधः ॥

74.18

अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीम्
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते
आयुरारोग्यमैश्वर्यम् अनन्तमिह जायते ॥

74.19

सर्वपापहरा नित्यं सर्वदैवतपूजिता
सर्वदुष्टोपशमनी सदा कल्याणसप्तमी ॥

74.20

इमामनन्तफलदां यस्तु कल्याणसप्तमीम्
शृणोति पठते चेह सर्वपापैः प्रमुच्यते ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc