मत्स्य पुराण · अध्याय 73
अथातः शृणु भूपाल प्रतिशुक्रं प्रशान्तये
यात्रारम्भे ऽवसाने च तथा शुक्रोदये त्विह ॥
राजते वाथ सौवर्णे कांस्यपात्रे ऽथवा पुनः
शुक्लपुष्पाम्बरयुते सिततण्डुलपूरिते ॥
विधाय राजतं शुक्रं शुचिमुक्ताफलान्वितम्
मन्त्रेणानेन तत्सर्वं सामगाय निवेदयेत् ॥
नमस्ते सर्वलोकेश नमस्ते भृगुनन्दन
कवे सर्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमो ऽस्तु ते ॥
एवमस्योदये कुर्वन् यात्रादिषु च भारत
सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥
यावच्छुक्रस्य न हृता पूजा सा माल्यकैः शुभैः
वटकैः पूरिकाभिश्च गोधूमैश्चणकैरपि
तावदन्नं न चाश्नीयात् त्रिभिः कामार्थसिद्धये ॥
तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर
सुवर्णपात्रे सौवर्णम् अमरेशपुरोहितम् ॥
पीतपुष्पाम्बरयुतं कृत्वा स्नात्वाथ सर्षपैः
पलाशाश्वत्थयोगेन पञ्चगव्यजलेन च ॥
पीताङ्गरागवसनो घृतहोमं तु कारयेत्
प्रणम्य च गवा सार्धं ब्राह्मणाय निवेदयेत् ॥
नमस्ते ऽङ्गिरसां नाथ वाक्पते च बृहस्पते
क्रूरग्रहैः पीडितानाम् अमृताय नमो नमः ॥
संक्रान्तावस्य कौन्तेय यात्रास्वभ्युदयेषु च
कुर्वन्बृहस्पतेः पूजां सर्वान्कामान्समश्नुते ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0