मत्स्य पुराण · अध्याय 72
शृणु चान्यद्भविष्यं यद् रूपसम्पद्विधायकम्
भविष्यति युगे तस्मिन् द्वापरान्ते पितामह
पिप्पलादस्य संवादो युधिष्ठिरपुरःसरैः ॥
वसन्तं नैमिषारण्ये पिप्पलादं महामुनिम्
अभिगम्य तदा चैनं प्रश्नमेकं करिष्यति
युधिष्ठिरो धर्मपुत्रो धर्मयुक्तस्तपोधनम् ॥
कथमारोग्यमैश्वर्यं मतिर्धर्मे गतिस्तथा
अव्यङ्गता शिवे भक्तिर् वैष्णवो वा भवेत्कथम् ॥
तस्योत्तरमिदं ब्रह्मन् पिप्पलादस्य धीमतः
शृणुष्व यद्वक्ष्यति वै धर्मपुत्राय धार्मिकः ॥
साधु पृष्टं त्वया भद्र इदानीं कथयामि ते
अङ्गारव्रतम् इत्येतत् स वक्ष्यति महीपतेः ॥
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
विरोचनस्य संवादं भार्गवस्य च धीमतः ॥
प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरम्
रूपेणाप्रतिमं कान्त्या सो ऽहसद्भृगुनन्दनः ॥
साधु साधु महाबाहो विरोचन शिवं तव
तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः ॥
ब्रह्मन्किमर्थमेतत्ते हास्यमाकस्मिकं कृतम्
साधुसाध्विति मामेवम् उक्तवांस्त्वं वदस्व मे ॥
तमेवंवादिनं शुक्र उवाच वदतां वरः
विस्मयाद्व्रतमाहात्म्याद् धास्यमेतत्कृतं मया ॥
पुरा दक्षविनाशाय कुपितस्य तु शूलिनः
अथ तद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः ॥
भित्त्वा स सप्त पातालान् अदहत्सप्त सागरान्
अनेकवक्त्रनयनो ज्वलज्ज्वलनभीषणः ॥
वीरभद्र इति ख्यातः करपादायुतैर्युतः
कृत्वासौ यज्ञमथनं पुनर्भूतलसम्भवः
त्रिजगन्निर्दहन्भूयः शिवेन विनिवारितः ॥
कृतं त्वया वीरभद्र दक्षयज्ञविनाशनम्
इदानीमलमेतेन लोकदाहेन कर्मणा ॥
शान्तिप्रदाता सर्वेषां ग्रहाणां प्रथमो भव
प्रेक्षिष्यन्ते जनाः पूजां करिष्यन्ति वरान्मम ॥
अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज
देवलोके ऽद्वितीयं च तव रूपं भविष्यति ॥
ये च त्वां पूजयिष्यन्ति चतुर्थ्यां त्वद्दिने नराः
रूपमारोग्यमैश्वर्यं तेष्वनन्तं भविष्यति ॥
एवमुक्तस्तदा शान्तिम् अगमत् कामरूपधृक्
संजातस्तत्क्षणाद्राजन् ग्रहत्वम् अगमत्पुनः ॥
स कदाचिद्भवांस्तस्य पूजार्घ्यादिकमुत्तमम्
दृष्टवान्क्रियमाणं च शूद्रेण च व्यवस्थितः ॥
तेन त्वं रूपवाञ्जातः सुरशत्रुकुलोद्वह
विविधा च रुचिर्जाता यस्मात्तव विदूरगा ॥
विरोचन इति प्राहुस् तस्मात्त्वां देवदानवाः
शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात्
ईदृशीं रूपसम्पत्तिं दृष्ट्वा विस्मितवानहम् ॥
साधु साध्विति तेनोक्तम् अहो माहात्म्यमुत्तमम्
पश्यतो ऽपि भवेद्रूपम् ऐश्वर्यं किमु कुर्वतः ॥
यस्माच्च भक्त्या धरणीसुतस्य विनिन्द्यमानेन गवादिदानम्
आलोकितं तेन सुरारिगर्भे सम्भूतिरेषा तव दैत्य जाता ॥
अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः
प्रह्रादनन्दनो वीरः पुनः पप्रच्छ विस्मितः ॥
भगवंस्तद्व्रतं सम्यक् श्रोतुमिच्छामि तत्त्वतः
दीयमानं तु यद्दानं मया दृष्टं भवान्तरे ॥
माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि
इति तद्वचनं श्रुत्वा पुनः प्रोवाच विस्तरात् ॥
चतुर्थ्यङ्गारकदिने यदा भवति दानव
मृदा स्नानं तदा कुर्यात् पद्मरागविभूषितः ॥
अग्निर्मूर्धा दिवो मन्त्रं जपन्नास्ते उदङ्मुखः
शूद्रस्तूष्णीं स्मरन्भौमम् आस्ते भोगविवर्जितः ॥
तथास्तमित आदित्ये गोमयेनानुलेपयेत्
प्राङ्गणं पुष्पमालाभिर् अक्षताभिः समन्ततः ॥
अभ्यर्च्याभिलिखेत्पद्मं कुङ्कुमेनाष्टपत्त्रकम्
कुङ्कुमस्याप्यभावे तु रक्तचन्दनमिष्यते ॥
चत्वारः करकाः कार्या भक्ष्यभोज्यसमन्विताः
तण्डुलै रक्तशालीयैः पद्मरागैश्च संयुताः ॥
चतुष्कोणेषु तान्कृत्वा फलानि विविधानि च
गन्धमाल्यादिकं सर्वं तथैव विनिवेदयेत् ॥
सुवर्णशृङ्गीं कपिलाम् अथार्च्य रौप्यैः सुरैः कांस्यदोहां सवत्साम्
धुरंधरं रक्तमतीव सौम्यं धान्यानि सप्ताम्बरसंयुतानि ॥
अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमत्यायतबाहुदण्डम्
चतुर्भुजं हेममये निविष्टं पात्रे गुडस्योपरि सर्पियुक्ते ॥
समस्तयज्ञाय जितेन्द्रियाय पात्राय शीलान्वयसंयुताय
दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दाम्भिकाय
समर्पयेद्विप्रवराय भक्त्या कृताञ्जलिः पूर्वमुदीर्य मन्त्रम् ॥
भूमिपुत्र महाभाग स्वेदोद्भव पिनाकिनः
रूपार्थी त्वां प्रपन्नो ऽहं गृहाणार्घ्यं नमो ऽस्तु ते ॥
मन्त्रेणानेन दत्त्वार्घ्यं रक्तचन्दनवारिणा
ततो ऽर्चयेद्विप्रवरं रक्तमाल्याम्बरादिभिः ॥
दद्यात्तेनैव मन्त्रेण भौमं गोमिथुनान्वितम्
शय्यां च शक्तितो दद्यात् सर्वोपस्करसंयुताम् ॥
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे
तत्तद्गुणवते देयं तदेवाक्षय्यमिच्छता ॥
प्रदक्षिणं ततः कृत्वा विसर्ज्य द्विजपुंगवम्
नक्तमक्षारलवणम् अश्नीयाद्घृतसंयुतम् ॥
भक्त्या यस्तु पुनः कुर्याद् एवमङ्गारकाष्टकम्
चतुरो वाथ वा तस्य यत्पुण्यं तद्वदामि ते ॥
रूपसौभाग्यसम्पन्नः पुनर्जन्मनि जन्मनि
विष्णौ वाथ शिवे भक्तः सप्तद्वीपाधिपो भवेत् ॥
सप्त कल्पसहस्राणि रुद्रलोके महीयते
तस्मात्त्वमपि दैत्येन्द्र व्रतमेतत्समाचर ॥
इत्येवमुक्त्वा भृगुनन्दनो ऽपि जगाम दैत्यश्च चकार सर्वम्
त्वं चापि राजन्कुरु सर्वमेतद् यतो ऽक्षयं वेदविदो वदन्ति ॥
तथेति सम्पूज्य स पिप्पलादं वाक्यं चकाराद्भुतवीर्यकर्मा
शृणोति यश्चैनमनन्यचेतास् तस्यापि सिद्धिं भगवान्विधत्ते ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0