भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 66

66.1

मधुरा भारती केन व्रतेन मधुसूदन
तथैव जनसौभाग्यम् अतिविद्यासु कौशलम् ॥

66.2

अभेदश्चापि दम्पत्योस् तथा बन्धुजनेन च
आयुश्च विपुलं पुंसां तन्मे कथय माधव ॥

66.3

सम्यक्पृष्टं त्वया राजञ् छृणु सारस्वतं व्रतम्
यस्य संकीर्तनादेव तुष्यतीह सरस्वती ॥

66.4

यो यद्भक्तः पुमान्कुर्याद् एतद्व्रतमनुत्तमम्
तद्वासरादौ सम्पूज्य विप्रानेतान्समाचरेत् ॥

66.5

अथवादित्यवारेण ग्रहताराबलेन च
पायसं भोजयेद्विप्रान् कृत्वा ब्राह्मणवाचनम् ॥

66.6

शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः
गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः ॥

66.7

यथा न देवि भगवान् ब्रह्मलोके पितामहः
त्वां परित्यज्य संतिष्ठेत् तथा भव वरप्रदा ॥

66.8

वेदाः शास्त्राणि सर्वाणि गीतनृत्यादिकं च यत्
न विहीनं त्वया देवि तथा मे सन्तु सिद्धयः ॥

66.9

लक्ष्मीर्मेधा धरा पुष्टिर् गौरी तुष्टिः प्रभा मतिः
एताभिः पाहि चाष्टाभिस् तनुभिर्मां सरस्वति ॥

66.10

एवं सम्पूज्य गायत्रीं वीणाक्षमणिधारिणीम्
शुक्लपुष्पाक्षतैर् भक्त्या सकमण्डलुपुस्तकाम्
मौनव्रतेन भुञ्जीत सायं प्रातस्तु धर्मवित् ॥

66.11

पञ्चम्यां प्रतिपक्षं च पूजयेद्ब्रह्मवासिनीम्
तथैव तण्डुलप्रस्थं घृतपात्रेण संयुतम्
क्षीरं दद्याद्धिरण्यं च गायत्री प्रीयतामिति ॥

66.12

संध्यायां च तथा मौनम् एतत्कुर्वन्समाचरेत्
नान्तरा भोजनं कुर्याद् यावन्मासास्त्रयोदश ॥

66.13

समाप्ते तु व्रते कुर्याद् भोजनं शुक्लतण्डुलैः
पूर्वं सवस्त्रयुग्मं च दद्याद्विप्राय भोजनम् ॥

66.14

देव्या वितानं घण्टां च सितनेत्रे पयस्विनीम्
चन्दनं वस्त्रयुग्मं च दद्याच्च शिखरं पुनः ॥

66.15

तथोपदेष्टारमपि भक्त्या सम्पूजयेद्गुरुम्
वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः ॥

66.16

अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम्
विद्यावानर्थसंयुक्तो रक्तकण्ठश्च जायते ॥

66.17

सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते
नारी वा कुरुते या तु सापि तत्फलगामिनी ॥

66.18

ब्रह्मलोके वसेद् राजन् यावत् कल्पायुतत्रयम् ॥

66.19

सारस्वतं व्रतं यस्तु शृणुयादपि यः पठेत्
विद्याधरपुरे सो ऽपि वसेत्कल्पायुतत्रयम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc