मत्स्य पुराण · अध्याय 65
अथान्यामपि वक्ष्यामि तृतीयां सर्वकामदाम्
यस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ॥
वैशाखशुक्लपक्षे तु तृतीया यैरुपोषिता
अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य च ॥
सा तथा कृत्तिकोपेता विशेषेण सुपूजिता
तत्र दत्तं हुतं जप्तं सर्वमक्षयमुच्यते ॥
अक्षया संततिस्तस्यास् तस्यां सुकृतमक्षयम्
अक्षतैः पूज्यते विष्णुस् तेन साप्यक्षया स्मृता
अक्षतैस्तु नराः स्नाता विष्णोर्दत्त्वा तथाक्षतान् ॥
विप्रेषु दत्त्वा तानेव तथा सक्तून् सुसंकृतान्
यथान्नभुङ्महाभागः फलमक्षय्यमश्नुते ॥
एकामप्युक्तवत्कृत्वा तृतीयां विधिवन्नरः
एतासामपि सर्वासां तृतीयानां फलं भवेत् ॥
तृतीयायां समभ्यर्च्य सोपवासो जनार्दनम्
राजसूयफलं प्राप्य गतिमग्र्यां च विन्दति ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0