भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 64

64.1

तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम्
नाम्ना च लोके विख्याताम् आर्द्रानन्दकरीमिमाम् ॥

64.2

यदा शुक्लतृतीयायाम् आषाढर्क्षं भवेत्क्वचित्
ब्रह्मर्क्षं वा मृगर्क्षं वा हस्तो मूलमथापि वा
दर्भगन्धोदकैः स्नानं तदा सम्यक्समाचरेत् ॥

64.3

शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः
भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगन्धिभिः
महादेवेन सहिताम् उपविष्टां महासने ॥

64.4

वासुदेव्यै नमः पादौ शंकराय नमो हरम्
जङ्घे शोकविनाशिन्यै आनन्दाय नमः प्रभो ॥

64.5

रम्भायै पूजयेदूरू शिवाय च पिनाकिनः
अदित्यै च कटिं देव्याः शूलिनः शूलपाणये ॥

64.6

माधव्यै च तथा नाभिम् अथ शम्भोर्भवाय च
स्तनावानन्दकारिण्यै शंकरस्येन्दुधारिणे ॥

64.7

उत्कण्ठिन्यै नमः कण्ठं नीलकण्ठाय वै हरम्
करावुत्पलधारिण्यै रुद्राय च जगत्पते
बाहू च परिरम्भिण्यै त्रिशूलाय हरस्य च ॥

64.8

देव्या मुखं विलासिन्यै वृषेशाय पुनर्विभोः
स्मितं सस्मेरलीलायै विश्ववक्त्राय वै विभो ॥

64.9

नेत्रे मदनवासिन्यै विश्वधाम्ने त्रिशूलिनः
भ्रुवौ नृत्यप्रियायै तु ताण्डवेशाय शूलिनः ॥

64.10

देव्या ललाटमिन्द्राण्यै हव्यवाहाय वै विभोः
स्वाहायै मुकुटं देव्या विभोर्गङ्गाधराय वै ॥

64.11

विश्वकायौ विश्वमुखौ विश्वपादकरौ शिवौ
प्रसन्नवदनौ वन्दे पार्वतीपरमेश्वरौ ॥

64.12

एवं सम्पूज्य विधिवद् अग्रतः शिवयोः पुनः
पद्मोत्पलानि रजसा नानावर्णेन कारयेत् ॥

64.13

शङ्खचक्रे सकटके स्वस्तिकाङ्कुशचामरान्
यावन्तः पांसवस्तत्र रजसः पतिता भुवि
तावद्वर्षसहस्राणि शिवलोके महीयते ॥

64.14

चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः
दत्त्वा द्विजाय करकम् उदकान्नसमन्वितम्
प्रतिपक्षं चतुर्मासं यावदेतन्निवेदयेत् ॥

64.15

ततस्तु चतुरो मासान् पूर्ववत्करकोपरि
चत्वारि सक्तुपात्राणि तिलपात्राण्यतः परम् ॥

64.16

गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोदकम्
अपक्वं दधि दुग्धं च गोशृङ्गोदकमेव च ॥

64.17

पिष्टोदकं तथा वारि कुष्ठचूर्णान्वितं पुनः
उशीरसलिलं तद्वद् यवचूर्णोदकं पुनः ॥

64.18

तिलोदकं च संप्राश्य स्वपेन्मार्गशिरादिषु
मासेषु पक्षद्वितयं प्राशनं समुदाहृतम् ॥

64.19

सर्वत्र शुक्लपुष्पाणि प्रशस्तानि सदार्चने
दानकाले च सर्वत्र मन्त्रमेतमुदीरयेत् ॥

64.20

गौरी मे प्रीयतां नित्यम् अघनाशाय मङ्गला
सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये ॥

64.21

संवत्सरान्ते लवणं गुडकुम्भं च सर्जिकाम्
चन्दनं नेत्रपट्टं च सहिरण्याम्बुजेन तु ॥

64.22

उमामहेश्वरं हैमं तद्वदिक्षुफलैर्युतम्
सतूलावरणां शय्यां सविश्रामां निवेदयेत्
सपत्नीकाय विप्राय गौरी मे प्रीयतामिति ॥

64.23

आर्द्रानन्दकरी नाम्ना तृतीयैषा सनातनी
यामुपोष्य नरो याति शम्भोर्यत्परमं पदम् ॥

64.24

इह लोके सदानन्दम् आप्नोति धनसम्पदः
आयुरारोग्यसम्पत्त्या न कश्चिच्छोकमाप्नुयात् ॥

64.25

नारी वा कुरुते या तु कुमारी विधवा च या
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता ॥

64.26

प्रतिपक्षमुपोष्यैवं मन्त्रार्चनविधानवित्
रुद्राणीलोकमभ्येति पुनरावृत्तिदुर्लभम् ॥

64.27

य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः
शक्रलोके स गन्धर्वैः पूज्यते ऽपि युगत्रयम् ॥

64.28

आनन्ददां सकलदुःखहरां तृतीयां या स्त्री करोत्यविधवा विधवाथ वापि
सा स्वे गृहे सुखशतान्यनुभूय भूयो गौरीपदं सदयिता दयिता प्रयाति ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc