भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 63

63.1

अथान्यामपि वक्ष्यामि तृतीयां पापनाशिनीम्
रसकल्याणिनीमेतां पुराकल्पविदो विदुः ॥

63.2

माघमासे तु सम्प्राप्ते तृतीयां शुक्लपक्षतः
प्रातर्गव्येन पयसा तिलैः स्नानं समाचरेत् ॥

63.3

स्नापयेन्मधुना देवीं तथैवेक्षुरसेन च
गन्धोदकेन तु पुनर् लेपयेत्कुङ्कुमेन तु
दक्षिणाङ्गानि सम्पूज्य ततो वामानि पूजयेत् ॥

63.4

ललितायै नमो देव्याः पादौ गुल्फौ ततो ऽर्चयेत्
जङ्घां जानुं तथा शान्त्यै तथैवोरुं श्रियै नमः ॥

63.5

मदालसायै तु कटिम् अमलायै तथोदरम्
स्तनौ मदनवासिन्यै कुमुदायै च कन्दराम् ॥

63.6

भुजं भुजाग्रं माधव्यै कमलायै मुखस्मिते
भूललाटं च रुद्राण्यै शंकरायै तथालकान् ॥

63.7

मुकुटं विश्ववासिन्यै शिरः कान्त्यै तथार्चयेत्
मदनायै ललाटं तु मोहनायै पुनर्भ्रुवौ ॥

63.8

नेत्रे चन्द्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः
उत्कण्ठिन्यै नमः कण्ठम् अमृतायै नमः स्तनौ ॥

63.9

रम्भायै वामकुक्षिं च विशोकायै नमः कटिम्
हृदयं मन्मथाधिष्ण्यै पाटलायै तथोदरम् ॥

63.10

कटिं सुरतवासिन्यै तथोरुं चम्पकप्रिये
जानुजङ्घे नमो गौर्यै गायत्र्यै घुटिके नमः ॥

63.11

धराधरायै पादौ तु विश्वकायै नमः शिरः
नमो भवान्यै कामिन्यै कामदेव्यै जगत्प्रिये ॥

63.12

आनन्दायै सुनन्दायै सुभद्रायै नमो नमः
एवं सम्पूज्य विधिवद् द्विजदाम्पत्यम् अर्चयेत्
भोजयित्वान्नपानेन मधुरेण विमत्सरः ॥

63.13

जलपूरितं तथा कुम्भं शुक्लाम्बरयुगद्वयम्
दत्त्वा सुवर्णकमलं गन्धमाल्यैः समर्चयेत् ॥

63.14

प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम्
अनेन विधिना देवी मासि मासि सदार्चयेत् ॥

63.15

लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः
तैलं राजिं तथा चैत्रे वर्ज्यं च मधु माधवे ॥

63.16

पानकं ज्येष्ठमासे तु आषाढे चाथ जीरकम्
श्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा ॥

63.17

घृतमाश्वयुजे तद्वद् ऊर्जे वर्ज्यं च माक्षिकम्
धान्यकं मार्गशीर्षे तु पौषे वर्ज्या च शर्करा ॥

63.18

व्रतान्ते करकं पूर्णम् एतेषां मासि मासि च
दद्याद्द्विकालवेलायां पूर्णपात्रेण संयुतम् ॥

63.19

लड्डुकाञ्छ्वेतवर्णांश्च संयावमथ पूरिकाः
घारिकान् अप्यपूपांश्च पिष्टापूपांश्च मण्डकान् ॥

63.20

क्षीरं शाकं च दध्यन्नम् इण्डर्यो ऽशोकवर्तिकाः
माघादिक्रमशो दद्याद् एतानि करकोपरि ॥

63.21

कुमुदा माधवी गौरी रम्भा भद्रा जया शिवा
उमा रतिः सती तद्वन् मङ्गला रतिलालसा ॥

63.22

क्रमान्माघादि सर्वत्र प्रीयतामिति कीर्तयेत्
सर्वत्र पञ्चगव्येन प्राशनं समुदाहृतम्
उपवासी भवेन्नित्यम् अशक्ते नक्तमिष्यते ॥

63.23

पुनर्माघे तु सम्प्राप्ते शर्करां करकोपरि
कृत्वा तु काञ्चनीं गौरीं पञ्चरत्नसमन्विताम् ॥

63.24

हैमीमङ्गुष्ठमात्रां च साक्षसूत्रकमण्डलुम्
चतुर्भुजामिन्दुयुतां सितनेत्रपटावृताम् ॥

63.25

तद्वद्गोमिथुनं शुक्लं सुवर्णास्यं सिताम्बरम्
सवस्त्रभाजनं दद्याद् भवानी प्रीयतामिति ॥

63.26

अनेन विधिना यस्तु रसकल्याणिनीव्रतम्
कुर्यात्स सर्वपापेभ्यस् तत्क्षणादेव मुच्यते ॥

63.27

नवार्बुदसहस्रं तु न दुःखी जायते नरः
सुवर्णकमलं गौरि मासि मासि ददन्नरः
अग्निष्टोमसहस्रस्य यत्फलं तदवाप्नुयात् ॥

63.28

नारी वा कुरुते या तु कुमारी वा वरानने
विधवा या तथा नारी सापि तत्फलमाप्नुयात्
सौभाग्यारोग्यसम्पन्ना गौरीलोके महीयते ॥

63.29

इति पठति शृणोति श्रावयेद्यः प्रसङ्गात् कलिकलुषविमुक्तः पार्वतीलोकमेति
मतिमपि च नराणां यो ददाति प्रियार्थं विबुधपतिविमाने नायकः स्यादमोघः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc