मत्स्य पुराण · अध्याय 56
कृष्णाष्टमीमथो वक्ष्ये सर्वपापप्रणाशिनीम्
शान्तिर्मुक्तिश्च भवति जयः पुंसां विशेषतः ॥
शंकरं मार्गशिरसि शम्भुं पौषे ऽभिपूजयेत्
माघे महेश्वरं देवं महादेवं च फाल्गुने ॥
स्थाणुं चैत्रे शिवं तद्वद् वैशाखे त्वर्चयेन्नरः
ज्येष्ठे पशुपतिं चार्चेद् आषाढे उग्रमर्चयेत् ॥
पूजयेच्छ्रावणे शर्वं नभस्ये त्र्यम्बकं तथा
हरमाश्वयुजे मासि तथेशानं च कार्त्तिके ॥
कृष्णाष्टमीषु सर्वासु शक्तः सम्पूजयेद्द्विजान्
गोभूहिरण्यवासोभिः शिवभक्तानुपोषितः ॥
गोमूत्रघृतगोक्षीर तिलान् यवकुशोदकम्
गोशृङ्गोदशिरीषार्क बिल्वपत्त्रदधीनि च
पञ्चगव्यं च संप्राश्य शंकरं पूजयेन्निशि ॥
अश्वत्थं च वटं चैवो -दुम्बरं प्लक्षमेव च
पलाशं जम्बुवृक्षं च विदुः षष्ठं महर्षयः ॥
मार्गशीर्षाषाढमासाभ्यां द्वाभ्यां द्वाभ्यामितिक्रमात्
एकैकं दन्तपवनं वृक्षेष्वेतेषु भक्षयेत् ॥
देवाय दद्यादर्घ्यं च कृष्णां गां कृष्णवाससम्
दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम् ॥
द्विजानामुदकुम्भांश्च पञ्चरत्नसमन्वितान्
गावः कृष्णाः सुवर्णं च वासांसि विविधानि च
अशक्तस्तु पुनर्दद्याद् गामेकामपि शक्तितः ॥
न वित्तशाठ्यं कुर्वीत कुर्वन्दोषमवाप्नुयात्
कृष्णाष्टमीमुपोष्यैव सप्तकल्पशतत्रयम्
पुमान्सम्पूजितो देवैः शिवलोके महीयते ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0