मत्स्य पुराण · अध्याय 55
उपवासेष्वशक्तस्य तदेव फलमिच्छतः
अनभ्यासेन रोगाद्वा किमिष्टं व्रतमुत्तमम् ॥
उपवासे ऽप्यशक्तानां नक्तं भोजनमिष्यते
यस्मिन्व्रते तदप्यत्र श्रूयतामक्षयं महत् ॥
आदित्यशयनं नाम यथावच्छंकरार्चनम्
येषु नक्षत्रयोगेषु पुराणज्ञाः प्रचक्षते ॥
यदा हस्तेन सप्तम्याम् आदित्यस्य दिनं भवेत्
सूर्यस्य चाथ संक्रान्तिस् तिथिः सा सार्वकामिकी ॥
उमामहेश्वरस्यार्चाम् अर्चयेत्सूर्यनामभिः
सूर्यार्चां शिवलिङ्गे च प्रकुर्वन् पूजयेद्यतः ॥
उमापते रवेर्वापि न भेदो दृश्यते क्वचित्
यस्मात्तस्मान्मुनिश्रेष्ठ गृहे शम्भुं समर्चयेत् ॥
हस्ते च सूर्याय नमो ऽस्तु पादाव् अर्काय चित्रासु च गुल्फदेशम्
स्वातीषु जङ्घे पुरुषोत्तमाय धात्रे विशाखासु च जानुदेशम् ॥
तथानुराधासु नमो ऽभिपूज्यम् ऊरुद्वयं चैव सहस्रभानोः
ज्येष्ठास्वनङ्गाय नमो ऽस्तु गुह्यम् इन्द्राय सोमाय कटी च मूले ॥
पूर्वोत्तराषाढयुगे च नाभिं त्वष्ट्रे नमः सप्ततरंगमाय
तीक्ष्णांशवे च श्रवणे च कुक्षौ पृष्ठं धनिष्ठासु विकर्तनाय ॥
चक्षुःस्थलं ध्वान्तविनाशनाय जलाधिपर्क्षे परिपूजनीयम्
पूर्वोत्तराभाद्रपदाद्वये च बाहू नमश्चण्डकराय पूज्यौ ॥
साम्नामधीशाय करद्वयं च संपूजनीयं द्विज रेवतीषु
नखानि पूज्यानि तथाश्विनीषु नमो ऽस्तु सप्ताश्वधुरंधराय ॥
कठोरधाम्ने भरणीषु कण्ठं दिवाकरायेत्यभिपूजनीया
ग्रीवाग्निऋक्षे ऽधरमम्बुजेशे सम्पूजयेन्नारद रोहिणीषु ॥
मृगोत्तमाङ्गे दशना मुरारेः संपूजनीया हरये नमस्ते
नमः सवित्रे रसनां शंकरे च नासाभिपूज्या च पुनर्वसौ च ॥
ललाटमम्भोरुहवल्लभाय पुष्ये ऽलका वेदशरीरधारिणे
सार्पे ऽथ मौलिं विबुधप्रियाय मघासु कर्णाविति गोगणेशे ॥
पूर्वासु गोब्राह्मणवन्दनाय नेत्राणि संपूज्यतमानि शम्भोः
अथोत्तराफल्गुनिभे भ्रुवौ च विश्वेश्वरायेति च पूजनीये ॥
नमो ऽस्तु पाशाङ्कुशशूलपद्म कपालसर्पेन्दुधनुर्धराय
गजासुरानङ्गपुरान्धकादि विनाशमूलाय नमः शिवाय ॥
इत्यादि चास्त्राणि च पूज्य नित्यं विश्वेश्वरायेति शिवो ऽभिपूज्यः
भोक्तव्यमत्रैवमतैलशाकम् अमांसमक्षारमभुक्तशेषम् ॥
इत्येवं द्विज नक्तानि कृत्वा दद्यात् पुनर्वसौ
शालेयतण्डुलप्रस्थम् औदुम्बरमये घृतम् ॥
संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत्
सप्तमे वस्त्रयुग्मं च पारणे त्वधिकं भवेत् ॥
चतुर्दशे तु सम्प्राप्ते पारणे नारदाब्दिके
ब्राह्मणान्भोजयेद्भक्त्या गुडक्षीरघृतादिभिः ॥
कृत्वा तु काञ्चनं पद्मम् अष्टपत्त्रं सकर्णिकम्
शुद्धमष्टाङ्गुलं तच्च पद्मरागदलान्वितम् ॥
शय्यां विलक्षणां कृत्वा विरुद्धग्रन्थिवर्जिताम्
सोपधानकविश्राम स्वास्तरव्यजनानि च ॥
भाजनोपानहछत्त्र चामरासनदर्पणैः
भूषणैरपि संयुक्तां फलवस्त्रानुलेपनैः ॥
तस्यां विधाय तत्पद्मम् अलंकृत्य गुणान्वितम्
कपिलां वस्त्रसंयुक्तां सुशीलां च पयस्विनीम् ॥
रौप्यखुरीं हेमशृङ्गीं सवत्सां कांस्यदोहनाम्
दद्यान्मन्त्रेण पूर्वाह्णे न चैनामभिलङ्घयेत् ॥
यथैवादित्यशयनम् अशून्यं तव सर्वदा
कान्त्या धृत्या श्रिया रत्या तथा मे सन्तु सिद्धयः ॥
यथा न देवाः श्रेयांसं त्वदन्यमनघं विदुः
तथा माम् उद्धराशेष दुःखसंसारसागरात् ॥
ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत्
शय्यागवादि तत्सर्वं द्विजस्य भवनं नयेत् ॥
नैतद्विशीलाय न दाम्भिकाय कुतर्कदुष्टाय विनिन्दकाय
प्रकाशनीयं व्रतमिन्दुमौलेर् यश्चापि निन्दामधिकां विधत्ते ॥
भक्ताय दान्ताय च गुह्यमेतद् आख्येयम् आनन्दकरं शिवस्य
इदं महापातकभिन् नराणाम् अप्यक्षरं वेदविदो वदन्ति ॥
न बन्धुपुत्रेण धनैर्वियुक्तः पत्नीभिरानन्दकरः सुराणाम्
नाभ्येति रोगं न च शोकदुःखं या वाथ नारी कुरुते ऽतिभक्त्या ॥
इदं वसिष्ठेन पुरार्जुनेन कृतं कुबेरेण पुरंदरेण
यत्कीर्तनेनाप्यखिलानि नाशम् आयान्ति पापानि न संशयो ऽस्ति ॥
इति पठति शृणोति वा य इत्थं रविशयनं पुरुहूतवल्लभः स्यात् ।
अपि नरकगतान्पितॄन् अशेषान् अपि दिवमानयतीह यः करोति ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0