भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 37

37.1

सर्वाणि कार्याणि समाप्य राजन् गृहान्परित्यज्य वनं गतो ऽसि
तत्त्वां पृच्छामि नहुषस्य पुत्र केनापि तुल्यस्तपसा ययाते ॥

37.2

नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु
आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव ॥

37.3

यदावमंस्थाः सदृशः श्रेयसश्च पापीयसश् चाविदितप्रभावः
तस्माल्लोका ह्य् अन्तवन्तस्तवेमे क्षीणे पुण्ये पतितो ऽस्यद्य राजन् ॥

37.4

सुरर्षिगन्धर्वनरावमानात् क्षयं गता मे यदि शक्रलोकाः
इच्छाम्यहं सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज ॥

37.5

सतां सकाशे पतितो ऽसि राजंश् च्युतः प्रतिष्ठां यत्र लब्धासि भूयः
एवं विदित्वा तु पुनर्ययाते न ते ऽवमान्याः सदृशः श्रेयसे च ॥

37.6

ततः पपातामरराजजुष्टात् पुण्याल्लोकात्पतमानं ययातिम्
सम्प्रेक्ष्य राजर्षिवरो ऽष्टकस् तम् उवाच सद्धर्मविधानगोप्ता ॥

37.7

कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाग्निः
पतस्युदीर्णाम्बुधरप्रकाशः खे खेचराणां प्रवरो यथार्कः ॥

37.8

दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्कद्युतिमप्रमेयम्
किंनुस्विद् एतत् पततीव सर्वे वितर्कयन्तः परिमोहिताः स्मः ॥

37.9

दृष्ट्वा च त्वाधिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम्
प्रत्युद्गतास्त्वां वयमद्य सर्वे तस्मात्पाते तव जिज्ञासमानाः ॥

37.10

न चापि त्वां धृष्णवः प्रष्टुम् अग्रे न च त्वमस्मान्पृच्छसि के वयं स्म
तत्त्वां पृच्छामि स्पृहणीयरूपं कस्य त्वं वा किंनिमित्तं त्वमागाः ॥

37.11

भयं तु ते व्येतु विषादमोहौ त्यजाशु देवेन्द्रसमानरूप
त्वां वर्तमानं हि सतां सकाशे शक्रो न सोढुं बलहापि शक्तः ॥

37.12

सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प
ते संगताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥

37.13

प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः
प्रभुः सूर्यः प्रकाशाच्च सतां चाभ्यागतः प्रभुः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc