भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 36

36.1

स्वर्गतस्तु स राजेन्द्रो न्यवसद्देवसद्मनि
पूजितस्त्रिदशैः साध्यैर् मरुद्भिर्वसुभिस्तथा ॥

36.2

देवलोकाद् ब्रह्मलोकं संचरन्पुण्यकृद्वशी
अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥

36.3

स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागतः
कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥

36.4

यदा स पूरुस्तव रूपेण राजञ् जरां गृहीत्वा प्रचचार लोके
तदा राज्यं सम्प्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम् ॥

36.5

प्रकृत्यनुमते पूरुं राज्ये कृत्वेदमब्रुवम्
गङ्गायमुनयोर्मध्ये कृत्स्नो ऽयं विषयस्तव
मध्ये पृथिव्यास्त्वं राजा भ्रातरो ऽन्ते ऽधिपास्तव ॥

36.6

अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुर् अतितिक्षोर् विशिष्टः
अमानुषेभ्यो मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः ॥

36.7

आक्रुश्यमानो नाक्रोशेन् मन्युमेव तितिक्षति
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥

36.8

नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परम् अभ्याददीत
ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलौल्याम् ॥

36.9

अरुन्तुदं पुरुषं तीव्रवाचं वाक्कण्टकैर् वितुदन्तं मनुष्यान्
विद्याद् अलक्ष्मीकतमं जनानां मुखे निबद्धं निरृतिं वहन्तम् ॥

36.10

सद्भिः पुरस्तादभिपूजितः स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात्
सदा सताम् अतिवादांस्तितिक्षेत् सतां वृत्तं पालयन्साधुवृतः ॥

36.11

वाक्सायका वदनान्निष्पतन्ति यैर् आहतः शोचति वा त्र्यहानि
परस्य नो मर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥

36.12

नास्तीदृशं संवननं त्रिषु लोकेषु किंचन
यथा मैत्री च लोकेषु दानं च मधुरा च वाक् ॥

36.13

तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित्
पूज्यान्सम्पूजयेद् दद्यान् नाभिशापं कदाचन ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc