भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 169

169.1

अथ योगवतां श्रेष्ठम् असृजद्भूरितेजसम्
स्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतोमुखम् ॥

169.2

यस्मिन्हिरण्मये पद्मे बहुयोजनविस्तृतम्
सर्वतेजोगुणमयं पार्थिवैर्लक्षणैर्वृतम् ॥

169.3

तच्च पद्मं पुराणज्ञाः पृथिवीरूपमुत्तमम्
नारायणसमुद्भूतं प्रवदन्ति महर्षयः ॥

169.4

या पद्मा सा रसा देवी पृथिवी परिचक्ष्यते
ये पद्मसारगुरवस् तान्दिव्यान् पर्वतान्विदुः ॥

169.5

हिमवन्तं च मेरुं च नीलं निषधमेव च
कैलासं मुञ्जवन्तं च तथान्यं गन्धमादनम् ॥

169.6

पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च
उदयं पिञ्जरं चैव विन्ध्यवन्तं च पर्वतम् ॥

169.7

एते देवगणानां च सिद्धानां च महात्मनाम्
आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः ॥

169.8

एतेषामन्तरे देशो जम्बूद्वीप इति स्मृतः
जम्बूद्वीपस्य संस्थानं यज्ञिया यत्र वै क्रियाः ॥

169.9

एभ्यो यत्स्रवते तोयं दिव्यामृतरसोपमम्
दिव्यास्तीर्थशताधाराः सुरम्याः सरितः स्मृताः ॥

169.10

स्मृतानि यानि पद्मस्य केसराणि समन्ततः
असंख्येयाः पृथिव्यास्ते विश्वे वै धातुपर्वताः ॥

169.11

यानि पद्मस्य पर्णानि भूरीणि तु नराधिप
ते दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः ॥

169.12

यान्यधोभागपर्णानि ते निवासास्तु भागशः
दैत्यानामुरगाणां च पतङ्गानां च पार्थिव ॥

169.13

तेषां महार्णवो यत्र तद्रसेत्यभिसंज्ञितम्
महापातककर्माणो मज्जन्ते यत्र मानवाः ॥

169.14

पद्मस्यान्तरतो यत्तद् एकार्णवगता मही
प्रोक्ताथ दिक्षु सर्वासु चत्वारः सलिलाकराः ॥

169.15

एवं नारायणस्यार्थे मही पुष्करसंभवा
प्रादुर्भावो ऽप्ययं तस्मान् नाम्ना पुष्करसंज्ञितः ॥

169.16

एतस्मात्कारणात्तज्ज्ञैः पुराणैः परमर्षिभिः
याज्ञिकैर्वेददृष्टान्तैर् यज्ञे पद्मविधिः स्मृतः ॥

169.17

एवं भगवता तेन विश्वेषां धारणाविधिः
पर्वतानां नदीनां च ह्रदानां चैव निर्मितः ॥

169.18

विभुस्तथैवाप्रतिमप्रभावः प्रभाकराभो वरुणः सितद्युतिः
शनैः स्वयंभूः शयनं सृजत्तदा जगन्मयं पद्मविधिं महार्णवे ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc