भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 159

159.1

वामं विदार्य निष्क्रान्तः सुतो देव्याः पुनः शिशुः
स्कन्दाच्च वदने वह्नेः शुक्रात्सुवदनो ऽरिहा ॥

159.2

कृत्तिकामेलनादेव शाखाभिः सविशेषतः
शाखाभिधाः समाख्याताः षट्सु वक्त्रेषु विस्तृताः ॥

159.3

यतस्ततो विशाखो ऽसौ ख्यातो लोकेषु षण्मुखः
स्कन्दो विशाखः षड्वक्त्रः कार्तिकेयश्च विश्रुतः ॥

159.4

चैत्रस्य बहुले पक्षे पञ्चदश्यां महाबलौ
सम्भूतावर्कसदृशौ विशाले शरकानने ॥

159.5

चैत्रस्यैव सिते पक्षे पञ्चम्यां पाकशासनः
बालकाभ्यां चकारैकं मत्वा चामरभूतये ॥

159.6

तस्यामेव ततः षष्ठ्याम् अभिषिक्तो गुहः प्रभुः
सर्वैरमरसंघातैर् ब्रह्मेन्द्रोपेन्द्रभास्करैः ॥

159.7

गन्धमाल्यैः शुभैर्धूपैस् तथा क्रीडनकैरपि
छत्रैश्चामरजालैश्च भूषणैश्च विलेपनैः ॥

159.8

अभिषिक्तो विधानेन यथावत्षण्मुखः प्रभुः
सुतामस्मै ददौ शक्रो देवसेनेति विश्रुताम् ॥

159.9

पत्न्यर्थं देवदेवस्य ददौ विष्णुस्तदायुधम्
यक्षाणां दशलक्षाणि ददावस्मै धनाधिपः ॥

159.10

ददौ हुताशनस्तेजो ददौ वायुश्च वाहनम्
ददौ क्रीडनकं त्वष्टा कुक्कुटं कामरूपिणम्
एवं सुरास्तु ते सर्वे परिवारमनुत्तमम् ॥

159.11

ददुर्मुदितचेतस्काः स्कन्दायादित्यवर्चसे ॥

159.12

जानुभ्यामवनौ स्थित्वा सुरसंघास्तमस्तुवन्
स्तोत्रेणानेन वरदं षण्मुखं मुख्यशः सुराः ॥

159.13

नमः कुमाराय महाप्रभाय स्कन्दाय च स्कन्दितदानवाय
नवार्कविद्युद्द्युतये नमो ऽस्तुते नमो ऽस्तु ते षण्मुख कामरूप ॥

159.14

पिनद्धनानाभरणाय भर्त्रे नमो रणे दानवदारणाय
नमो ऽस्तु ते ऽर्कप्रतिमप्रभाय नमो ऽस्तु गुह्याय गुहाय तुभ्यम् ॥

159.15

नमो ऽस्तु त्रैलोक्यभयापहाय नमो ऽस्तु ते बाल कृपापराय
नमो विशालामललोचनाय नमो विशाखाय महाव्रताय ॥

159.16

नमो नमस्ते ऽस्तु मनोहराय नमो नमस्ते ऽस्तु रणोत्कटाय
नमो मयूरोज्ज्वलवाहनाय नमो ऽस्तु केयूरधराय तुभ्यम् ॥

159.17

नमो धृतोदग्रपताकिने नमस्ते नमः प्रभावप्रणताय ते ऽस्तु
नमस्ते नमस्ते वरवीर्यशालिने कृपापरो नो भव भव्यमूर्ते ॥

159.18

क्रियापरा यज्ञपतिं च स्तुत्वा विनेमुरेवं त्वमराधिपाद्याः
एवं तदा षड्वदनस्तु सेन्द्रान् उवाच तुष्टश्च गुहस्ततस्तान्
निरीक्ष्य नेत्रैरमलैः सुरेशाञ् शत्रून्हनिष्यामि गतज्वराः स्थ ॥

159.19

कं वः कामं प्रयच्छामि देवता ब्रूत निर्वृताः
यद्यप्यसाध्यं हृद्यं वो हृदये चिन्तितं परम् ॥

159.20

इत्युक्तास्तु सुरास्तेन प्रोचुः प्रणतमौलयः
सर्व एव महात्मानं गुहं तद्गतमानसाः ॥

159.21

दैत्येन्द्रस्तारको नाम सर्वामरकुलान्तकृत्
बलवान्दुर्जयो दुष्टो दुराचारो ऽतिकोपनः
तमेव जहि हृद्यो ऽर्थ एषो ऽस्माकं भयापह ॥

159.22

एवमुक्तस्तथेत्युक्त्वा सर्वामरपदानुगः
जगाम जगतां नाथः स्तूयमानो ऽमरेश्वरैः ॥

159.23

तारकस्य वधार्थाय जगतः कण्टकस्य वै
ततश्च प्रेषयामास शक्रो लब्धसमाश्रयः ॥

159.24

दूतं दानवसिंहस्य परुषाक्षरवादिनम्
स तु गत्वाब्रवीद्दैत्यं निर्भयो भीमदर्शनः ॥

159.25

शक्रस्त्वामाह देवेशो दैत्यकेतो दिवस्पतिः
तारकासुर तच्छ्रुत्वा घटशक्त्या यथेच्छया ॥

159.26

यज्जगद्दलनादाप्तं किल्बिषं दानव त्वया
तस्याहं शासकस्ते ऽद्य राजास्मि भुवनत्रये ॥

159.27

श्रुत्वैतद्दूतवचनं कोपसंरक्तलोचनः
उवाच दूतं दुष्टात्मा नष्टप्रायविभूतिकः ॥

159.28

दृष्टं ते पौरुषं शक्र रणेषु शतशो मया
निस्त्रपत्वान्न ते लज्जा विद्यते शक्र दुर्मते ॥

159.29

एवमुक्ते गते दूते चिन्तयामास दानवः
नालब्धसंश्रयः शक्रो वक्तुमेवं हि चार्हति ॥

159.30

जितः स शक्रो नाकस्माज् जायते संश्रयाश्रयः
निमित्तानि च दुष्टानि सो ऽपश्यद्दुष्टचेष्टितः ॥

159.31

पांशुवर्षमसृक्पातं गगनादवनीतले
भुजनेत्रप्रकम्पं च वक्त्रशोषमनोभ्रमम् ॥

159.32

स्वकान्तावक्त्रपद्मानां म्लानतां च व्यलोकयत्
दुष्टांश्च प्राणिनो रौद्रान् सो ऽपश्यद्दुष्टवेदिनः ॥

159.33

तदचिन्त्वैव दितिजो न्यस्तचिन्तो ऽभवत्क्षणात्
यावद्गजघटाघण्टा रणत्काररवोत्कटाम् ॥

159.34

तद्वत्तुरगसंघात क्षुण्णभूरेणुपिञ्जराम्
चञ्चलस्यन्दनोदग्र ध्वजराजिविराजिताम् ॥

159.35

विमानैश्चाद्भुताकारैश् चलितामरचामरैः
तां भूषणनिबद्धां च किंनरोद्गतिनादिताम् ॥

159.36

नानानाकतरूत्फुल्ल कुसुमापीडधारिणीम्
विकोशास्त्रपरिष्कारां वर्मनिर्मलदर्शनाम् ॥

159.37

बन्द्युद्घुष्टस्तुतिरवां नानावाद्यनिनादिताम्
सेनां नाकसदां दैत्यः प्रासादस्थो व्यलोकयत् ॥

159.38

चिन्तयामास स तदा किंचिदुद्भ्रान्तमानसः
अपूर्वः को भवेद्योद्धा यो मया न विनिर्जितः ॥

159.39

ततश्चिन्ताकुलो दैत्यः शुश्राव कटुकाक्षरम्
सिद्धबन्दिभिरुद्घुष्टम् इदं हृदयदारणम् ॥

159.40

जयातुलशक्तिदीधितिपिञ्जर भुजदण्डचण्डरणरभस ।
सुरवदन कुमुदकानन-विकासनेन्दो कुमार जय दितिजकुलमहोदधिवडवानल ॥

159.41

षण्मुख मधुररवमयूररथ सुरमुकुटकोटिघट्टितचरणनखाङ्कुरमहासन ।
जय ललितचूडाकलापनवविमलदलकमलकान्त दैत्यवंशदुःसहदावानल ॥

159.42

जय विशाख विभो जय सकललोकतारक जय देवसेनानायक ।
स्कन्द जय गौरीनन्दन घण्टाप्रिय प्रिय विशाख विभो धृतपताकप्रकीर्णपटल ।
कनकभूषण भासुरदिनकरच्छाय ॥

159.43

जय जनितसंभ्रम लीलालूनाखिलाराते जय सकललोकतारक दितिजासुरवरतारकान्तक ।
स्कन्द जय बाल सप्तवासर जय भुवनावलिशोकविनाशन ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc