मत्स्य पुराण · अध्याय 158
एवमुक्त्वा गिरिसुता माता मे स्नेहवत्सला
प्रवेशं लभते नान्या नारी कमललोचने ॥
इत्युक्ता तु तदा देवी चिन्तयामास चेतसा
न सा नारीति दैत्यो ऽसौ वायुर्मे यामभाषत ॥
वृथैव वीरकः शप्तो मया क्रोधपरीतया
अकार्यं क्रियते मूढैः प्रायः क्रोधसमीरितैः ॥
क्रोधेन नश्यते कीर्तिः क्रोधो हन्ति स्थिरां श्रियम्
अपरिच्छिन्नतत्त्वार्था पुत्रं शापितवत्यहम्
विपरीतार्थबुद्धीनां सुलभो विपदोदयः ॥
संचिन्त्यैवमुवाचेदं वीरकं प्रति शैलजा
लज्जासज्जविकारेण वदनेनाम्बुजत्विषा ॥
अहं वीरक ते माता मा ते ऽस्तु मनसो भ्रमः
शंकरस्यास्मि दयिता सुता तुहिनभूभृतः ॥
मम गात्रच्छविभ्रान्त्या मा शङ्कां पुत्र भावय
तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना ॥
मया शप्तो ऽस्यविदिते वृत्तान्ते दैत्यनिर्मिते
ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्थिते ॥
न निवर्तयितुं शक्यः शापः किं तु ब्रवीमि ते
शीघ्रमेष्यसि मानुष्यात् स त्वं कामसमन्वितः ॥
शिरसा तु ततो वन्द्य मातरं पूर्णमानसः
उवाचोदितपूर्णेन्दु द्युतिं च हिमशैलजाम् ॥
नतसुरासुरमौलिमिलन्मणि प्रचयकान्तिकरालनखाङ्किते
नगसुते शरणागतवत्सले तव नतो ऽस्मि नतार्तिविनाशिनि ॥
तपनमण्डलमण्डितकंधरे पृथुसुवर्णसुवर्णनगद्युते
विषभुजंगनिषङ्गविभूषिते गिरिसुते भवतीमहमाश्रये ॥
जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा
जगति कां च न वाञ्छति शंकरो भुवनधृत्तनये भवतीं यथा ॥
विमलयोगविनिर्मितदुर्जय स्वतनुतुल्यमहेश्वरमण्डले
विदलितान्धकबान्धवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता ॥
सितसटापटलोद्धतकंधरा भरमहामृगराजरथस्थिता
विमलशक्तिमुखानलपिङ्गला यतभुजौघविपिष्टमहासुरा ॥
निगदिता भुवनैरिति चण्डिका जननि शुम्भनिशुम्भनिषूदनी
प्रणतचिन्तितदानवदानव प्रमथनैकरतिस्तरसा भुवि ॥
वियति वायुपथे ज्वलनोज्ज्वले ऽवनितले तव देवि च यद्वपुः
तदजिते ऽप्रतिमे प्रणमाम्यहं भुवनभाविनि ते भववल्लभे ॥
जलधयो ललितोद्धतवीचयो हुतवहद्युतयश्च चराचरम्
फणसहस्रभृतश्च भुजंगमास् त्वदभिधास्यति मय्यभयंकराः ॥
भगवति स्थिरभक्तजनाश्रये प्रतिगतो भवतीचरणाश्रयम्
करणजातमिहास्तु ममाचलं नुतिलवाप्तिफलाशयहेतुतः ॥
प्रशममेहि ममात्मजवत्सले तव नमो ऽस्तु जगत्त्रयसंश्रये
त्वयि ममास्तु मतिः सततं शिवे शरणगो ऽस्मि नतो ऽस्मि नमो ऽस्तु ते ॥
प्रसन्ना तु ततो देवी वीरकस्येति संस्तुता
प्रविवेश शुभं भर्तुर् भवनं भूधरात्मजा ॥
अथ रुद्रो महागौरीं गौरीं दृष्ट्वा तु सुन्दरीम्
चित्तव्यामोहनाकारां करीन्द्रोन्मत्तगामिनीम् ॥
पूर्णचन्द्राननां तन्वीं नितम्बोरुघनस्तनीम्
मध्ये क्षामां तथाक्षीण लावण्यामृतवर्षिणीम् ॥
सर्वाभरणपूर्वाङ्गीं मदो मन्देन कारिणीम्
सकामः शङ्कितो दीनो रौद्रो वीरो भयानकः ॥
करुणाहास्यबीभत्स किंचित्किंचिद्धरो ऽभवत्
जिघांसुर्देववाक्येन भैरवं कृतवान्वपुः ॥
सा चापि भैरवी जाता देवस्य प्रतिरूपिणी
तस्या रूपसहस्राणि ददर्श गिरिगोचरः ॥
ग्रस्ते सहस्ररूपाणां तारारूपे प्रदर्शिते
पार्वत्या चाथ निःशङ्कः शंकरो वाभवत्ततः ॥
दृष्ट्वा जगन्मयीं तां तु रराम सुरतप्रियः
विरहोत्कण्ठितां भार्यां प्राप्य भूयो हिमात्मजाम् ॥
यावद्वर्षसहस्रान्तम् उभयो रहसिस्थयोः
नानाकरणबद्धोत्था क्रीडासीत् संतता तयोः ॥
द्वारस्थो वीरको देवान् हरदर्शनकाङ्क्षिणः
व्यसर्जयत् स्वकान्येव गृहाण्यादरपूर्वकम् ॥
नास्त्यत्रावसरो देवा देव्या सह वृषाकपिः
निभृतः क्रीडतीत्युक्ता ययुस्ते च यथागतम् ॥
गते वर्षसहस्रे तु देवास्त्वरितमानसाः
ज्वलनं चोदयामासुर् ज्ञातुं शंकरचेष्टितम् ॥
प्रविश्य जालरन्ध्रेण शुकरूपी हुताशनः
ददृशे शयने शर्वं रतं गिरिजया सह ॥
ददृशे तं च देवेशो हुताशं शुकरूपिणम्
तमुवाच महादेवः किंचित्कोपसमन्वितः ॥
निषिक्तमर्धं देव्यां मे शुक्रस्य शुकविग्रह
लज्जया विरतिस्थायां त्वमर्धं पिब पावक ॥
यस्मात्तु त्वत्कृतो विघ्नस् तस्मात्त्वय्युपपद्यते
इत्युक्तः प्राञ्जलिर्वह्निर् अपिबद्वीर्यमाहितम् ॥
तेनापूर्यत तान्देवांस् तत्तत्कायविभेदतः
विपाट्य जठरं तेषां वीर्यं माहेश्वरं ततः ॥
निष्क्रान्ते तप्तहेमाभं विततं शंकराश्रमे
तस्मिन्सरो महज्जातं विमलं बहुयोजनम् ॥
प्रोत्फुल्लहेमकमलं नानाविहगनादितम्
तच्छ्रुत्वा तु ततो देवी हेमद्रुममहाजलम् ॥
जगाम कौतुकाविष्टा तत्सरः कनकाम्बुजम्
तत्र कृत्वा जलक्रीडां तदब्जकृतशेखरा ॥
उपविष्टा ततस्तस्य तीरे देवी सखीयुता
पातुकामा च तत्तोयं स्वादु निर्मलपङ्कजम् ॥
अपश्यत्कृत्तिकाः स्नाताः षडर्कद्युतिसंनिभाः
पद्मपत्रे तु तद्वारि गृहीत्वोपस्थिता गृहम् ॥
हर्षादुवाच पश्यामि पद्मपत्रे स्थितं पयः
ततस्ता ऊचुरखिलं कृत्तिका हिमशैलजाम् ॥
दास्यामो यदि ते गर्भः सम्भूतो यो भविष्यति
सो ऽस्माकमपि पुत्रः स्याद् अस्मन्नाम्ना च वर्तताम्
भवेल्लोकेषु विख्यातः सर्वेष्वपि शुभानने ॥
इत्युक्तोवाच गिरिजा कथं मद्गात्रसंभवः
सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत् ॥
ततस्तां कृत्तिका ऊचुर् विधास्यामो ऽस्य वै वयम्
उत्तमान्युत्तमाङ्गानि यद्येवं तु भविष्यति ॥
उक्ता वै शैलजा प्राह भवत्वेवमनिन्दिताः
ततस्ता हर्षसम्पूर्णाः पद्मपत्रस्थितं पयः ॥
तस्यै ददुस्तया चापि तत्पीतं क्रमशो जलम्
पीते तु सलिले तस्मिंस् ततस्तस्मिन्सरोवरे ॥
विपाट्य देव्याश्च ततो दक्षिणां कुक्षिमुद्गतः
निश्चक्रामाद्भुतो बालः सर्वलोकविभासकः ॥
प्रभाकरप्रभाकारः प्रकाशकनकप्रभः
गृहीतनिर्मलोदग्र शक्तिशूलः षडाननः ॥
दीप्तो मारयितुं दैत्यान् कुत्सितान्कनकच्छविः
एतस्मात्कारणाद्दैवः कुमारश्चापि सो ऽभवत् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0