भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 157

157.1

मातरं मा परित्यज्य यस्मात्त्वं स्नेहविक्लवाम्
विहितावसरः स्त्रीणां शंकरस्य रहोविधौ ॥

157.2

तस्मात्ते परुषा रूक्षा जडा हृदयवर्जिता
गणेश क्षारसदृशी शिला माता भविष्यति ॥

157.3

निमित्तमेतद्विख्यातं वीरकस्य शिलोदये
सो ऽभवत्प्रक्रमेणैव विचित्राख्यानसंश्रयः ॥

157.4

एवमुत्सृष्टशपाया गिरिपुत्र्यास्त्वनन्तरम्
निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः ॥

157.5

स तु सिंहः करालास्यो जटाजटिलकंधरः
प्रोद्धूतलम्बलाङ्गूलो दंष्ट्रोत्कटमुखातटः ॥

157.6

व्यादितास्यो ललज्जिह्वः क्षामकुक्षिश्चिखादिषुः
तस्याशु वर्तितुं देवी व्यवस्यत सती तदा ॥

157.7

ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः
आजगामाश्रमपदं संपदामाश्रयं तदा
आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा ॥

157.8

किं पुत्रि प्राप्तुकामासि किमलभ्यं ददामि ते
विरम्यताम् अतिक्लेशात् तपसो ऽस्मान्मदाज्ञया ॥

157.9

तच्छ्रुत्वोवाच गिरिजा गुरोर्गौरत्वगर्भितम्
वाक्यं वाचा चिरोद्गीर्ण वर्णनिर्णीतवाञ्छितम् ॥

157.10

तपसा दुष्करेणाप्तः पतित्वे शंकरो मया
स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः ॥

157.11

स्यामहं काञ्चनाकारा वाल्लभ्येन च संयुता
भर्तुर्भूतपतेरङ्गम् एकतो निर्विशे ऽङ्गवत् ॥

157.12

तस्यास्तद्भाषितं श्रुत्वा प्रोवाच कमलासनः
एवं भव त्वं भूयश्च भर्तृदेहार्धधारिणी ॥

157.13

ततस्तत्याज भृङ्गाङ्गं फुल्लनीलोत्पलत्वचम् ॥

157.14

त्वचा सा चाभवद्दीप्ता घण्टाहस्ता त्रिलोचना
नानाभरणपूर्णाङ्गी पीतकौशेयधारिणी ॥

157.15

तामब्रवीत्ततो ब्रह्मा देवीं नीलाम्बुजत्विषम्
निशे भूधरजादेह सम्पर्कात् त्वं ममाज्ञया ॥

157.16

सम्प्राप्ता कृतकृत्यत्वम् एकानंशा पुरा ह्यसि
य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने ॥

157.17

स ते ऽस्तु वाहनं देवि केतौ चास्तु महाबलः
गच्छ विन्ध्याचलं तत्र सुरकार्यं करिष्यसि ॥

157.18

पञ्चालो नाम यक्षो ऽयं यक्षलक्षपदानुगः
दत्तस्ते किंकरो देवि मया मायाशतैर्युतः ॥

157.19

इत्युक्ता कौशिकी देवी विन्ध्यशैलं जगाम ह
उमापि प्राप्तसंकल्पा जगाम गिरिशान्तिकम् ॥

157.20

प्रविशन्तीं तु तां द्वाराद् अपकृष्य समाहितः
रुरोध वीरको देवीं हेमवेत्रलताधरः ॥

157.21

तामुवाच स कोपेन रूपात्तु व्यभिचारिणीम्
प्रयोजनं न ते ऽस्तीह गच्छ यावन्न भेत्स्यसे ॥

157.22

देव्या रूपधरो दैत्यो देवं वञ्चयितुं त्विह
प्रविष्टो न च दृष्टो ऽसौ स वै देवेन घातितः ॥

157.23

घातिते चाहमाज्ञप्तो नीलकण्ठेन कोपिना
द्वारेषु नावधानं ते यस्मात्पश्यामि वै ततः ॥

157.24

भविष्यसि न मद्द्वाःस्थो वर्षपूगान्यनेकशः
अतस्ते ऽत्र न दास्यामि प्रवेशं गम्यतां द्रुतम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc