मत्स्य पुराण · अध्याय 156
देवीं सापश्यद् आयान्तीं सखीं मातुर्विभूषिताम्
कुसुममोदिनीं नाम तस्य शैलस्य देवताम् ॥
सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा
क्व पुत्रि गच्छसीत्युच्चैर् आलिङ्ग्योवाच देवता ॥
सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम्
पुनश्चोवाच गिरिजा देवतां मातृसंमताम् ॥
नित्यं शैलाधिराजस्य देवता त्वमनिन्दिते
सर्वतः संनिधानं ते मम चातीव वत्सला ॥
अतस्तुते प्रवक्ष्यामि यद्विधेयं तदा धिया
अन्यस्त्रीसंप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः ॥
रहस्यत्र प्रयत्नेन चेतसा सततं गिरौ
पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयानघे ॥
ततो ऽहं संविधास्यामि यत्कृत्यं तदनन्तरम्
इत्युक्ता सा तथेत्युक्त्वा जगाम स्वगिरिं शुभम् ॥
उमापि पितुरुद्यानं जगामाद्रिसुता द्रुतम्
अन्तरिक्षं समाविश्य मेघमालामिव प्रभा ॥
ततो विभूषणान्यस्य वृक्षवल्कलधारिणी
ग्रीष्मे पञ्चाग्निसंतप्ता वर्षासु च जलोषिता ॥
शैशिरासु च रात्रीषु शुष्कस्थण्डिलशायिनी
एवं साधयती तत्र तपसा संव्यवस्थिता ॥
ज्ञात्वा तु तां गिरिसुतां दैत्यस्तत्रान्तरे वशी
अन्धकस्य सुतो दृप्तः पितुर्वधमनुस्मरन् ॥
देवान्सर्वान्विजित्याजौ बकभ्राता रणोत्कटः
आडिर्नामान्तरप्रेक्षी सततं चन्द्रमौलिनः ॥
आजगामामररिपुः पुरं त्रिपुरघातिनः
स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितम् ॥
विचिन्त्यासीद्वरं दत्तं स पुरा पद्मजन्मना
हते तदान्धके दैत्ये गिरिशेनामरद्विषि ॥
आडिश्चकार विपुलं तपः परमदारुणम्
तमागत्याब्रवीद्ब्रह्मा तपसा परितोषितः ॥
किमाडे दानवश्रेष्ठ तपसा प्राप्तुमिच्छसि
ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे ॥
न कश्चिच् च विना मृत्युं नरो दानव विद्यते
यतस्ततो ऽपि दैत्येन्द्र मृत्युः प्राप्यः शरीरिणा ॥
इत्युक्तो दैत्यसिंहस्तु प्रोवाचाम्बुजसंभवम्
रूपस्य परिवर्तो मे यदा स्यात्पद्मसंभव ॥
तदा मृत्युर्मम भवेद् अन्यथा त्वमरो ह्यहम्
इत्युक्तस्तु तदोवाच तुष्टः कमलसंभवः ॥
यदा द्वितीयो रूपस्य विवर्तस्ते भविष्यति
तदा ते भविता मृत्युर् अन्यथा न भविष्यति ॥
इत्युक्तो ऽमरतां मेने दैत्यसूनुर् महाबलः
तस्मिन्काले तु संस्मृत्य तद्वधोपायमात्मनः ॥
परिहर्तुं दृष्टिपथं वीरकस्याभवत्तदा
भुजंगरूपी रन्ध्रेण प्रविवेश दृशः पथम् ॥
परिहृत्य गणेशस्य दानवो ऽसौ सुदुर्जयः
अलक्षितो गणेशेन प्रविष्टो ऽथ पुरान्तकम् ॥
भुजगरूपं संत्यज्य बभूवाथ महासुरः
उमारूपी छलयितुं गिरिशं मूढचेतनः ॥
कृत्वा मायां ततो रूपम् अप्रतर्क्यमनोहरम्
सर्वावयवसम्पूर्णं सर्वाभिज्ञानसंवृतम् ॥
कृत्वा मुखान्तरे दन्तान् दैत्यो वज्रोपमान्दृढान्
तीक्ष्णाग्रान् बुद्धिमोहेन गिरिशं हन्तुमुद्यतः ॥
कृत्वोमारूपसंस्थानं गतो दैत्यो हरान्तिकम्
पापो रम्याकृतिश्चित्र भूषणाम्बरभूषितः ॥
तं दृष्ट्वा गिरिशस्तुष्टस् तदालिङ्ग्य महासुरम्
मन्यमानो गिरिसुतां सर्वैरवयवान्तरैः ॥
अपृच्छत्साधु ते भावो गिरिपुत्रि न कृत्रिमः
या त्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनी ॥
त्वया विरहितं शून्यं मन्यमानो जगत्त्रयम्
प्राप्ता प्रसन्नवदना युक्तमेवंविधं त्वयि ॥
इत्युक्तो दानवेन्द्रस्तु तदाभाषत्स्मयञ्छनैः
न चाबुध्यदभिज्ञानं प्रायस्त्रिपुरघातिनः ॥
यातास्म्यहं तपश्चर्तुं वाल्लभ्याय तवातुलम्
रतिश्च तत्र मे नाभूत् ततः प्राप्ता त्वदन्तिकम् ॥
इत्युक्तः शंकरः शङ्कां कांचित्प्राप्यावधारयत्
हृदयेन समाधाय देवः प्रहसिताननः ॥
कुपिता मयि तन्वङ्गी प्रकृत्या च दृढव्रता
अप्राप्तकामा सम्प्राप्ता किमेतत्संशयो मम ॥
इति चिन्त्य हरस्तस्या अभिज्ञानं विधारयन्
नापश्यद्वामपार्श्वे तु तदङ्गे पद्मलक्षणम् ॥
लोमावर्तं तु रचितं ततो देवः पिनाकधृक्
अबुध्यद्दानवीं मायाम् आकारं गूहयंस्ततः ॥
मेढ्रे वज्रास्त्रमादाय दानवं तमसूदयत्
अबुध्यद्वीरको नैव दानवेन्द्रं निषूदितम् ॥
हरेण सूदितं दृष्ट्वा स्त्रीरूपं दानवेश्वरम्
अपरिच्छिन्नतत्त्वार्था शैलपुत्र्यै न्यवेदयत् ॥
दूतेन मारुतेनाशु गामिना नगदेवता
श्रुत्वा वायुमुखाद्देवी क्रोधरक्तविलोचना
अशपद्वीरकं पुत्रं हृदयेन विदूयता ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0