मत्स्य पुराण · अध्याय 116
स ददर्श नदीं पुण्यां दिव्यां हैमवतीं शुभाम्
गन्धर्वैश्च समाकीर्णां नित्यं शक्रेण सेविताम् ॥
सुरेभमदसंसिक्तां समन्तात्तु विराजिताम्
मध्येन शक्रचापाभां तस्मिन्नहनि सर्वदा ॥
तपस्विशरणोपेतां महाब्राह्मणसेविताम्
ददर्श तपनीयाभां महाराजः पुरूरवाः ॥
सितहंसावलिच्छन्नां काशचामरराजिताम्
साभिषिक्तामिव सतां पश्यन्प्रीतिं परां ययौ ॥
पुण्यां सुशीतलां हृद्यां मनसः प्रीतिवर्धिनीम्
क्षयवृद्धियुतां रम्यां सोममूर्तिमिवापराम् ॥
सुशीतशीघ्रपानीयां द्विजसंघनिषेविताम्
सुतां हिमवतः श्रेष्ठां चञ्चद्वीचिविराजिताम् ॥
अमृतस्वादुसलिलां तापसैरुपशोभिताम्
स्वर्गारोहणनिःश्रेणीं सर्वकल्मषनाशिनीम् ॥
अग्र्यां समुद्रमहिषीं महर्षिगणसेविताम्
सर्वलोकस्य चौत्सुक्य कारिणीं सुमनोहराम् ॥
हितां सर्वस्य लोकस्य नाकमार्गप्रदायिकाम्
गोकुलाकुलतीरान्तां रम्यां शैवालवर्जिताम् ॥
हंससारससंघुष्टां जलजैरुपशोभिताम्
आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलीम् ॥
नीलनीरजनेत्राभाम् उत्फुल्लकमलाननाम्
हिमाभफेनवसनां चक्रवाकाधरां शुभाम्
बलाकापङ्क्तिदशनां चलन्मत्स्यावलिभ्रुवम् ॥
स्वजलोद्भूतमातंग रम्यकुम्भपयोधराम्
हंसनूपुरसंघुष्टां मृणालवलयावलीम् ॥
तस्यां रूपमदोन्मत्ता गन्धर्वानुगताः सदा
मध्याह्नसमये राजन् क्रीडन्त्यप्सरसां गणाः ॥
ताम् अप्सरोविनिर्मुक्तं वहन्तीं कुङ्कुमं शुभम्
स्वतीरद्रुमसम्भूत नानावर्णसुगन्धिनीम् ॥
तरंगव्रातसंक्रान्त सूर्यमण्डलदुर्दृशम्
सुरेभजनिताघात विकूलद्वयभूषिताम् ॥
शक्रेभगण्डसलिलैर् देवस्त्रीकुचचन्दनैः
संयुतं सलिलं तस्याः षट्पदैर् उपसेव्यते ॥
तस्यास्तीरभवा वृक्षाः सुगन्धकुसुमाञ्चिताः
तथापकृष्टसंभ्रान्त भ्रमरस्तनिताकुलाः ॥
यस्यास्तीरे रतिं यान्ति सदा कामवशा मृगाः
तपोवनाश्च ऋषयस् तथा देवाः सहाप्सराः ॥
लभन्ते यत्र पूताङ्गा देवेभ्यः प्रतिमानिताः
स्त्रियश्च नाकबहुलाः पद्मेन्दुप्रतिमाननाः ॥
या बिभर्ति सदा तोयं देवसंघैरपीडितम्
पुलिन्दैर्नृपसंघैश्च व्याघ्रवृन्दैरपीडितम् ॥
सतामरसपानीयां सतारगगनामलाम्
स तां पश्यन्ययौ राजा सतामीप्सितकामदाम् ॥
यस्यास्तीररुहैः काशैः पूर्णैश्चन्द्रांशुसंनिभैः
राजते विविधाकारै रम्यतीरं महाद्रुमैः
या सदा विविधैर्विप्रैर् देवैश्चापि निषेव्यते ॥
या च सदा सकलौघविनाशं भक्तजनस्य करोत्यचिरेण
यानुगता सरितां हि कदम्बैर् यानुगता सततं हि मुनीन्द्रैः ॥
या हि सुतानिव पाति मनुष्यान् या च युता सततं हिमसंघैः
या च युता सततं सुरवृन्दैर् या च जनैः स्वहिताय श्रिता वै ॥
प्रयुक्ता च केसरिगणैः करिवृन्दजुष्टा संतानयुक्तसलिलापि सुवर्णयुक्ता
सूर्यांशुतापपरिवृद्धिविवृद्धशीता शीतांशुतुल्ययशसा ददृशे नृपेण ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0