भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 111

111.1

कथं सर्वमिदं प्रोक्तं प्रयागस्य महामुने
एतन्नः सर्वमाख्याहि यथा हि मम तारयेत् ॥

111.2

शृणु राजन्प्रयागे तु प्रोक्तं सर्वमिदं जगत्
ब्रह्मा विष्णुस्तथेशानो देवताः प्रभुरव्ययः ॥

111.3

ब्रह्मा सृजति भूतानि स्थावरं जङ्गमं च यत्
तान्येतानि परं लोके विष्णुः संवर्धते प्रजाः ॥

111.4

कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत्
तदा प्रयागतीर्थं च न कदाचिद्विनश्यति ॥

111.5

ईश्वरः सर्वभूतानां यः पश्यति स पश्यति
यत्नेनानेन तिष्ठन्ति ते यान्ति परमां गतिम् ॥

111.6

आख्याहि मे यथातथ्यं यथैषा तिष्ठति श्रुतिः
केन वा कारणेनैव तिष्ठन्ते लोकसत्तमाः ॥

111.7

प्रयागे निवसन्त्येते ब्रह्मविष्णुमहेश्वराः
कारणं तत्प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर ॥

111.8

पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम्
तिष्ठन्ति रक्षणायात्र पापकर्मनिवारणात् ॥

111.9

उत्तरेण प्रतिष्ठानाच् छद्मना ब्रह्म तिष्ठति
वेणीमाधवरूपी तु भगवांस्तत्र तिष्ठति ॥

111.10

माहेश्वरो वटो भूत्वा तिष्ठते परमेश्वरः
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
रक्षन्ति मण्डलं नित्यं पापकर्मनिवारणात् ॥

111.11

यस्मिञ्जुह्वन्स्वकं पापं नरकं च न पश्यति
एवं ब्रह्मा च विष्णुश्च प्रयागे स महेश्वरः ॥

111.12

सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले
रक्षमाणाश्च तिष्ठन्ति यावदाभूतसंप्लवम् ॥

111.13

ये चान्ये बहवः सर्वे तिष्ठन्ति च युधिष्ठिर
यत् पृथिवी तत्समाश्रित्य निर्मिता दैवतैस् त्रिभिः ॥

111.14

प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम्
एतत्पुण्यं पवित्रं वै प्रयागं च युधिष्ठिर
स्वराज्यं कुरु राजेन्द्र भ्रातृभिः सहितो ऽनघ ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc