मत्स्य पुराण · अध्याय 110
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु
नैमिषं पुष्करं चैव गोतीर्थं सिन्धुसागरम् ॥
गया च चैत्रकं चैव गङ्गासागरमेव च
एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः ॥
दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथा पराः
प्रयागे संस्थिता नित्यम् एवमाहुर्मनीषिणः ॥
त्रीणि चाप्यग्निकुण्डानि येषां मध्ये तु जाह्नवी
प्रयागादभिनिष्क्रान्ता सर्वतीर्थनमस्कृता ॥
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
यमुना गङ्गया सार्धं संगता लोकभाविनी ॥
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम्
प्रयागं राजशार्दूल कलां नार्हति षोडशीम् ॥
तिस्रः कोट्यो ऽर्धकोटिश्च तीर्थानां वायुरब्रवीत्
दिवि भुव्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥
प्रयागं समधिष्ठानं कम्बलाश्वतरावुभौ
भोगवत्यथ या चैषा वेदिरेषा प्रजापतेः ॥
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर
प्रजापतिम् उपासन्ते ऋषयश्च तपोधनाः ॥
यजन्ते क्रतुभिर् देवास् तथा चक्रधरा नृपाः
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत ॥
प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो
दश तीर्थसहस्राणि तिस्रः कोट्यस्तथा पराः ॥
यत्र गङ्गा महाभागा स देशस्तत्तपोधनम्
सिद्धक्षेत्रं च विज्ञेयं गङ्गातीरसमन्वितम् ॥
इदं सत्यं विजानीयात् साधूनामात्मनश्च वै
सुहृदश्च जपेत्कर्णे शिष्यस्यानुगतस्य च ॥
इदं धन्यमिदं स्वर्ग्यम् इदं सत्यमिदं सुखम्
इदं पुण्यमिदं धर्म्यं पावनं धर्ममुत्तमम् ॥
महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम्
अधीत्य च द्विजो ऽप्येतन् निर्मलः स्वर्गमाप्नुयात् ॥
य इदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः
जातिस्मरत्वं लभते नाकपृष्ठे च मोदते ॥
प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः
स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥
त्वया च सम्यक्पृष्टेन कथितं वै मया विभो
पितरस्तारिताः सर्वे तथैव च पितामहाः ॥
व्रतं दानं तपस्तीर्थं यागाः सर्वे सदक्षिणाः
योगाः सांख्यं सदाचारो ये चान्ये ज्ञानहेतवः
प्रयागस्य तु सर्वे ते कलां नार्हन्ति षोडशीम् ॥
एवं ज्ञानं च योगश्च तीर्थं चैव युधिष्ठिर
बहुक्लेशेन युज्यन्ते तेन यान्ति परां गतिम्
त्रिकालं जायते ज्ञानं स्वर्गलोकं गमिष्यति ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0