भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 109

109.1

श्रुतं मे ब्रह्मणा प्रोक्तं पुराणे ब्रह्मसम्भवे
तीर्थानां तु सहस्राणि शतानि नियुतानि च
सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता ॥

109.2

सोमतीर्थं महापुण्यं महापातकनाशनम्
स्नानमात्रेण राजेन्द्र पुरुषांस्तारयेच्छतम्
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥

109.3

पृथिव्यां नैमिषं पुण्यम् अन्तरिक्षे च पुष्करम्
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ॥

109.4

सर्वाणि तानि संत्यज्य कथमेकं प्रशंससि
अप्रमाणं तु तत्रोक्तम् अश्रद्धेयमनुत्तमम् ॥

109.5

गतिं च परमां दिव्यां भोगांश्चैव यथेप्सितान्
किमर्थमल्पयोगेन बहु धर्मं प्रशंससि
एतन्मे संशयं ब्रूहि यथादृष्टं यथाश्रुतम् ॥

109.6

अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि यद्भवेत्
नरस्याश्रद्दधानस्य पापोपहतचेतसः ॥

109.7

अश्रद्दधानो ह्यशुचिर् दुर्मतिस्त्यक्तमङ्गलः
एते पातकिनः सर्वे तेनेदं भाषितं त्वया ॥

109.8

शृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम्
प्रत्यक्षं च परोक्षं च यथान्यस्तं भविष्यति ॥

109.9

यथैवान्यददृष्टं च यथादृष्टं यथाश्रुतम्
शास्त्रं प्रमाणं कृत्वा च युज्यते योगमात्मनः ॥

109.10

क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात्
जन्मान्तरसहस्रेभ्यो योगो लभ्येत मानवैः ॥

109.11

यथा योगसहस्रेण योगो लभ्येत मानवैः
यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति ॥

109.12

तेन दानेन दत्तेन योगं नाभ्येति मानवः
प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा ॥

109.13

प्रधानहेतुं वक्ष्यामि श्रद्दधत्स्व च भारत
यथा सर्वेषु भूतेषु ब्रह्म सर्वत्र दृश्यते ॥

109.14

ब्राह्मणे वास्ति यत्किंचिद् अब्राह्मम् इति वोच्यते
एवं सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते ॥

109.15

तथा सर्वेषु लोकेषु प्रयागं पूजयेद्बुधः
पूज्यते तीर्थराजस्तु सत्यमेव युधिष्ठिर ॥

109.16

ब्रह्मापि स्मरते नित्यं प्रयागं तीर्थमुत्तमम्
तीर्थराजम् अनुप्राप्य न चान्यत्किंचिदर्हति ॥

109.17

को हि देवत्वमासाद्य मनुष्यत्वं चिकीर्षति
अनेनैवोपमानेन त्वं ज्ञास्यसि युधिष्ठिर
यथा पुण्यतमं चास्ति तथैव कथितं मया ॥

109.18

श्रुतं चेदं त्वया प्रोक्तं विस्मितो ऽहं पुनः पुनः
कथं योगेन तत्प्राप्तिः स्वर्गवासस्तु कर्मणा ॥

109.19

दाता वै लभते भोगान् गां च यत्कर्मणः फलम्
तानि कर्माणि पृच्छामि पुनस्तैः प्राप्यते मही ॥

109.20

शृणु राजन्महाबाहो यथोक्तकरणं महीम्
गामग्निं ब्राह्मणं शास्त्रं काञ्चनं सलिलं स्त्रियः ॥

109.21

मातरं पितरं चैव ये निन्दन्ति नराधमाः
न तेषामूर्ध्वगमनम् इदमाह प्रजापतिः ॥

109.22

एवं योगस्य सम्प्राप्ति स्थानं परमदुर्लभम्
गच्छन्ति नरकं घोरं ये नराः पापकर्मिणः ॥

109.23

हस्त्यश्वं गाम् अनड्वाहं मणिमुक्तादिकाञ्चनम्
परोक्षं हरते यस्तु पश्चाद्दानं प्रयच्छति ॥

109.24

न ते गच्छन्ति वै स्वर्गं दातारो यत्र भोगिनः
अनेनकर्मणा युक्ताः पच्यन्ते नरके पुनः ॥

109.25

एवं योगं च धर्मं च दातारं च युधिष्ठिर
यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम्
निरुक्तं तु प्रवक्ष्यामि यथाह स्वयमंशुमान् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc