मत्स्य पुराण · अध्याय 108
एतच्छ्रुत्वा प्रयागस्य यत्त्वया परिकीर्तितम्
विशुद्धं मे ऽद्य हृदयं प्रयागस्य तु कीर्तनात् ॥
अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम्
यं च लोकमवाप्नोति विशुद्धः सर्वकिल्बिषैः ॥
शृणु राजन्प्रयागे तु अनाशकफलं विभो
प्राप्नोति पुरुषो धीमाञ् श्रद्दधानो जितेन्द्रियः ॥
अहीनाङ्गो ऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः
अश्वमेधफलं तस्य गच्छतस्तु पदे पदे ॥
कुलानि तारयेद्राजन् दश पूर्वान्दशापरान्
मुच्यते सर्वपापेभ्यो गच्छेत्तु परमं पदम् ॥
महाभाग्यं हि धर्मस्य यत्त्वं वदसि मे प्रभो
अल्पेनैव प्रयत्नेन बहून्धर्मानवाप्नुते ॥
अश्वमेधैस्तु बहुभिः प्राप्यते सुव्रतैरिह
इमं मे संशयं छिन्द्धि परं कौतूहलं हि मे ॥
शृणु राजन्महावीर यदुक्तं ब्रह्मयोनिना
ऋषीणां संनिधौ पूर्वं कथ्यमानं मया श्रुतम् ॥
पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम्
प्रविष्टमात्रे तद्भूमाव् अश्वमेधः पदे पदे ॥
व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश
नरस्तारयते सर्वान् यस्तु प्राणान्परित्यजेत् ॥
एवं ज्ञात्वा तु राजेन्द्र सदा सेवापरो भवेत्
अश्रद्दधानाः पुरुषाः पापोपहतचेतसः
न प्राप्नुवन्ति तत्स्थानं प्रयागं देवरक्षितम् ॥
स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः
कथं तीर्थफलं तेषां कथं पुण्यफलं भवेत् ॥
विक्रयः सर्वभाण्डानां कार्याकार्यमजानतः
प्रयागे का गतिस्तस्य तन्मे ब्रूहि पितामह ॥
शृणु राजन्महागुह्यं सर्वपापप्रणाशनम्
मासमेकं तु यः स्नायात् प्रयागे नियतेन्द्रियः
मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम् ॥
विश्रम्भघातकानां तु प्रयागे शृणु यत्फलम्
त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत्
त्रिभिर्मासैः स मुच्येत प्रयागे तु न संशयः ॥
अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत्
सर्वकामसमृद्धस्तु स्वर्गलोके महीयते
स्थानं च लभते नित्यं धनधान्यसमाकुलम् ॥
एवं ज्ञानेन सम्पूर्णः सदा भवति भोगवान्
तारिताः पितरस्तेन नरकात्प्रपितामहाः ॥
धर्मानुसारि तत्त्वज्ञ पृच्छतस्ते पुनः पुनः
त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम् ॥
अद्य मे सफलं जन्म अद्य मे तारितं कुलम्
प्रीतो ऽस्म्यनुगृहीतो ऽस्मि दर्शनादेव ते मुने ॥
त्वद्दर्शनात्तु धर्मात्मन् मुक्तो ऽहं चाद्य किल्बिषात्
इदानीं वेद्मि चात्मानं भगवन्गतकल्मषम् ॥
दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम्
कीर्तनाद्वर्धते पुण्यं श्रुतात्पापप्रणाशनम् ॥
यमुनायां तु किं पुण्यं किं फलं तु महामुने
एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम् ॥
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
समाख्याता महाभागा यमुना तत्र निम्नगा ॥
येनैव निःसृता गङ्गा तेनैव यमुना गता
योजनानां सहस्रेषु कीर्तनात्पापनाशिनी ॥
तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर
कीर्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति ॥
अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम्
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ॥
अग्नितीर्थमिति ख्यातं यमुनादक्षिणे तटे
पश्चिमे धर्मराजस्य तीर्थं तु नरकं स्मृतम् ॥
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः
एवं तीर्थसहस्राणि यमुनादक्षिणे तटे ॥
उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः
तीर्थं निरञ्जनं नाम यत्र देवाः सवासवाः ॥
उपासते स्म संध्यां ये त्रिकालं हि युधिष्ठिर
देवाः सेवन्ति तत्तीर्थं ये चान्ये विबुधा जनाः ॥
श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम्
अन्ये च बहवस्तीर्थाः सर्वपापहराः स्मृताः
तेषु स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः ॥
गङ्गा च यमुना चैव उभे तुल्यफले स्मृते
केवलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते ॥
एवं कुरुष्व कौन्तेय सर्वतीर्थाभिषेचनम्
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥
यस्त्विमं कल्य उत्थाय पठते च शृणोति च
मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0