भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 81

81.1

इति श्रीमार्कण्डेयपुराणे ऽशीतितमो ऽध्यायः
एकाशीतितमो ऽध्यायः- 81।
मार्कण्डेय उवाच
सावर्णिः सूर्यतनयो यो मनुः कथ्यते ऽष्टमः ।
निशामय तदुत्पत्तिं विस्तराद् गदतो मम

81.2

महामायानुभावेन यथा मन्वन्तराधिपः ।
स बभूव महाभागः सावर्णिस्तनयो रवेः

81.3

स्वारोचिषे ऽन्तरे पूर्वं चैत्रवंशसमुद्भवः ।
सुरथो नाम राजाभूत् समस्ते क्षितिमण्डले

81.4

तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् ।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तथा

81.5

तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः ।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः

81.6

ततः स्वपुरमायातो निजदेशाधिपो ऽभवत् ।
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः

81.7

अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः ।
कोषो बलञ्चापहृतं तत्रापि स्वपुरे ततः

81.8

ततो मृगयाव्याजेन हृतस्वाम्यः स भुपतिः ।
एकाकी हयमारुह्य जगाम गहनं वनम्

81.9

स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः ।
प्रशान्तश्वापदाकीर्णं मुनिश्ष्योपशोभितम्

81.10

तस्थौ कञ्चित् स कालञ्च मुनिना तेन सत्कृतः ।
इतश्चैतश्च विचरंस्तस्मिन् मुनिवराश्रमे

81.11

सो ऽचिन्तयत् तदा तत्र ममत्वाकृष्टचेतनः ।
मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् ।
मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा

81.12

न जाने स प्रधानो मे शूरहस्ती सदामदः ।
मम वैरिवशं यातः कान् भोगानुपलप्स्यते

81.13

ये ममानुगता नित्यं प्रसादधनभोजनैः ।
अनुवृत्तिं ध्रुवं ते ऽद्य कुर्वन्त्यन्यमहीभृताम्

81.14

असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ।
संचितः सो ऽतिदुः खेन क्षयं कोशो गमिष्यति

81.15

एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ।
तत्र विप्राश्रमाभ्यासे वैश्यमेकं ददर्श सः

81.16

स पृष्टस्तेन कस्त्वं भोः हेतुश्चागमने ऽत्र कः ।
सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे

81.17

इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ।
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्

81.18

वैश्य उवाच
समाधिर्नाम वैश्यो ऽहमुत्पन्नो धनिनां कुले ।
पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः

81.19

विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ।
वनमभ्यागतो दुः खी निरस्तश्चाप्तबन्धुभैः

81.20

सो ऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ।
प्रवृत्तिं स्वजनानाञ्च दाराणाञ्चात्र संस्थितः

81.21

किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ।
कथं ते किं नु सद्वृत्ताः दुर्वृत्ताः किं नु मे सुताः

81.22

राजोवाच
यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः ।
तेषु किं भवतः स्नेहमनुबध्नाति मानसम्

81.23

वैश्च उवाच
एवमेतद्यथा प्राह भवानस्मद्गतं वचः ।
किं करोमि न बध्नाति मम निष्ठुरतां मनः

81.24

यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ।
पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः

81.25

किमेतन्नाभिजानामि जानन्नपि महामते ।
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु

81.26

तेषां कृते मे निः श्वासो दौर्मनस्यं च जायते ।
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम्

81.27

मार्कण्डेय उवाच
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ।
समाधिर्नाम वैश्यो ऽसौ स च पार्थिवसत्तमः

81.28

कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ।
उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्य-पार्थिवौ

81.29

राजौवाच
भगवंस्त्वामहं प्रष्टुमिच्चाम्येकं वदस्व तत् ।
दुः खाय यन्मे मनसः स्वचित्तायत्ततां विना

81.30

ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ।
जानतो ऽपि यथाज्ञस्य किमेतन्मुनिसत्तम

81.31

अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ।
स्वजनेन च सन्त्यक्तस्तेषु हार्दे तथाप्यति

81.32

एवमेष तथाहं च द्वावप्यत्यन्तदुः खितौ ।
दृष्टदोषे ऽपि विषये ममत्वाकृष्टमानसौ

81.33

तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ।
ममास्य च भवत्येषा विवेकान्धस्य मूढता

81.34

ऋषिरुवाच
ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ।
विषयश्च महाभाग याति चैवं पृथक् पृथक्

81.35

दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ।
केचिद् दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः

81.36

ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम् ।
यतो हि ज्ञानिनः सर्वे पशु-पक्षि-मृगादयः

81.37

ज्ञानं च तन्मनुष्याणां यत्तेषां मृगृपक्षिणाम् ।
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः

81.38

ज्ञाने ऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ।
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा

81.39

मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ।
लोभात्प्रत्युपकाराय नन्वेतान् किं न पश्यसि

81.40

तथापि ममतावर्ते मोहगर्ते निपातिताः ।
महामायाप्रभावेण संसारस्थितिकारिणा

81.41

तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ।
महामाया हरेश्चैतत्तथा संमोह्यते जगत्

81.42

ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति

81.43

तया विसृज्यते विश्वं जगदेतच्चराचरम् ।
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये

81.44

सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ।
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी

81.45

रोजोवाच
भगवन् ! का हि सा देवी महामायेति यां भवान् ।
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज

81.46

यत्स्वभावा च सा देवी यत्स्वरूपा यदुद्भवा ।
तत् सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर

81.47

ऋषिरुवाच
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ।
तथापि तत्समुत्पत्तिर्बहुधा श्रुयतां मम

81.48

देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ।
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते

81.49

योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ।
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः

81.50

तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ।
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ

81.51

स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ।
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्

81.52

तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः ।
विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम्

81.53

ब्रह्मोवाच
विश्वेश्वरीं जगद्धात्रीं स्थिति-संहारकारिणीम् ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः

81.54

त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता

81.55

अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा

81.56

त्वयैव धार्यते सर्वं त्वयैतत्सृज्यते जगत् ।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा

81.57

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संहृतिरूपान्ते जगतो ऽस्य जगन्मये

81.58

महाविद्या महामाया महामेधा महास्मृतिः ।
महामोहा च भवती महादेवी महेश्वरी

81.59

प्रकृतिस्त्वञ्च सर्वस्य गुणत्रयविभाविनी ।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा

81.60

त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च

81.61

खडिगनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाण-भुशुण्डी परिघायुधा

81.62

सौम्या सौम्यतराशेष-सौम्येभ्यस्त्वतिसुन्दरी ।
परापराणां परमा त्वमेव परमेश्वरी

81.63

यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शिक्तिः सा त्वं किं स्तूयते तदा

81.64

यया त्वया जगत्स्त्रष्टा जगत्पात्यत्ति यो जगत् ।
सो ऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः

81.65

विष्णुः शरीरग्रहणमहामीशान एव च ।
कारितास्ते यतो ऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्

81.66

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरो मधुकैटभौ

81.67

प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ

81.68

ऋषिरुवाच
एवं स्तुता तदा देवी तामसी तत्र वेधसा ।
विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ

81.69

नेत्रास्यनासिका-बाहु-हृदयेभ्यस्तथोरसः ।
निर्गम्य दर्शने तस्थौ ब्रह्मणो ऽव्यक्तजन्मनः

81.70

उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ।
एकार्णवे ऽहिशयनात्ततः स ददृशे च तौ

81.71

मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ।
क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ

81.72

समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ।
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः

81.73

तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ।
उक्तवन्तौ वरो ऽस्मत्तो व्रियतामिति केशवम्

81.74

भगवानुवाच
भवनेतामद्य मे तुष्टौ मम वध्यावुभावपि ।
किमन्येन वरेणात्र एतावद्धि वृतं मम

81.75

ऋषिरुवाच
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ।
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः

81.76

आवां जहि न यत्रोर्वो सलिलेन परिप्लुता ।
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः

81.77

ऋषिरुवाच
तथेत्युक्त्वा भगवता शङ्ख-चक्र-गदाभृता ।
कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः

81.78

एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ।
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc