भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 80

80.1

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतकीर्तनं नामैकोनाशीतितमो ऽध्यायः
अशीतितमो ऽध्यायः- 80
क्रौष्टुकिरुवाच
स्वायम्भुवाद्याः कथिताः सप्तैते मनवो मम ।
तदन्तरेषु ये देवा राजानो मुनयस्तथा

80.2

अस्मिन् कल्पे सप्त ये ऽन्ये भविष्यन्ति महामुने ।
मनवस्तान् समाचक्ष्व ये च देवादयश्च ये

80.3

मार्कण्डेय उवाच
कथितस्तव सावर्णिश्छायासंज्ञासुतश्च यः ।
पूर्वजस्य मनोस्तुल्यः स मनुर्भविताष्टमः

80.4

रामो व्यासो गालवश्च दीप्तिमान् कृप एव च ।
ऋष्यशृङ्गस्तथा द्रोणस्तत्र सप्तर्षयो ऽभवन्

80.5

सुतपाश्चामिताभाश्च मुख्याश्चैव त्रिधा सुराः ।
विंशकः कथिताश्चैषां त्रयाणां त्रिगुणो गणः

80.6

तपस्तप्तश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ।
प्रभासो दयितो धर्मस्तेजोरश्मिश्चिरक्रतुः

80.7

इत्यादिकस्तु सुतपा देवानां विंशको गणः ।
प्रभुर्विभुर्विभासाद्यस्तथान्यो विंशको गणः

80.8

सुराणाममिताभानां तृतीयमपि मे शृणु ।
दमो दान्तो ऋतः सोमो वित्ताद्याश्चैव विंशतिः

80.9

मुख्या ह्येते समाख्याता देवा मन्वन्तराधिपाः ।
मारीचस्यैव ते पुत्राः कश्यपस्य प्रजापतेः

80.10

भविष्याश्च भविष्यन्ति सावर्णस्यान्तरे मनोः ।
तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने

80.11

पाताल आस्ते यो ऽद्यापि दैत्यः समयबन्धनः ।
विरजाश्चार्ववीरश्च निर्मोहः सत्यवाक् कृतिः ।
विष्ण्वाद्याश्चैव तनयाः सावर्णस्य मनोर्नृपाः

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc