भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 79

79.1

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतोत्पत्तिर्नामाष्टसप्ततितमो ऽध्यायः
ऊनाशीतितमो ऽध्यायः- 79
मार्कण्डेय उवाच
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
भृगवो ऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः

79.2

आदित्या वसवो रुद्रा विज्ञेयाः कश्यपात्मजाः ।
साध्याश्च मरुतो विश्वे धर्मपुत्रगणास्त्रयः

79.3

भृगोस्तु भृगवो देवाः पुत्रा ह्यङ्गिरसः सुताः ।
एष सर्गश्च मारीचो विज्ञेयः साम्प्रताधिपः

79.4

ऊर्जस्वी नाम चैवेन्द्रो महात्मा यज्ञभागभुक् ।
अतीतानागता ये च वर्तन्ते साम्प्रतञ्च ये

79.5

सर्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः ।
सहस्राक्षाः कुलिशिनः सर्व एव पुरन्दराः

79.6

मघवन्तो वृषाः सर्वे शृङ्गिणो गजगामिनः ।
ते शतक्रतवः सर्वे भूताभिभवतेजसः

79.7

धर्माद्यैः कारणैः सुद्धैराधिपत्यगुणान्विताः ।
भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्विज

79.8

भूर्लोको ऽयं स्मृता भूमिरन्तरिक्षं दिवः स्मृतम् ।
दिव्याख्याश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते

79.9

अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानृषिः ।
गौतमश्च भरद्वाजौ विश्वामित्रो ऽथ कौशिकः

79.10

तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
जमदग्निस्तु सप्तैते मुनयो ऽत्र नथान्तरे

79.11

इक्ष्वाकुर्नाभगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभागारिष्ट एव च

79.12

करूषश्च पृषध्रश्च वसुमान् लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्राः प्रकीर्तिताः

79.13

वैवस्वतमिदं ब्रह्मन् ! कथितन्ते मयान्तरम् ।
अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम ।
मुच्यते पातकैः सर्वैः पुण्यञ्च महदश्नते

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc