भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 74

74.1

इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे त्रिसप्ततितमो ऽध्यायः
चतुः सप्ततितमो ऽध्यायः- 74
मार्कण्डेय उवाच
राजाभूद् विख्यातः स्वराष्ट्रो नाम वीर्यवान् ।
अनेकयज्ञकृत् प्राज्ञः संग्रामेष्वपराजितः

74.2

तस्यायुः सुमहत्प्रादात् मन्त्रिणाराधितो रविः ।
पत्नीनाञ्च शतन्तस्य धन्यानामभवद् द्विज

74.3

तस्य दीर्घायुषः पत्न्यो नातिदीर्घायुषो मुने ।
कालेन जग्मुर्निधनं भृत्यमन्त्रिजनास्तथा

74.4

स भार्याभिस्तथायुक्तो भृत्यैश्च सहजन्मभिः ।
उद्विग्नचेताः संप्राप वीर्यहानिमहर्निशम्

74.5

तं वीर्यहीनं निभृतैर्भृत्यैस्त्यक्तं सुदुः खितम् ।
अनन्तरो विमर्दाख्यो राज्याच्च्यावितवांस्तदा

74.6

राज्याच्च्युतः सो ऽपि वनं गत्वा निर्विण्णमानसः ।
तपस्तेपे महाभागे वितस्तापुलिने स्थितः

74.7

ग्रीष्मे पञ्चतमा भूत्वा वर्षास्वभ्रावकाशिकः ।
जलशायी च शिशिरे निराहारो यतव्रतः

74.8

ततस्तपस्यतस्तस्य प्रावृट्काले महाप्लवः ।
बभूवानुदिनं मेघैर्वर्षद्भिरनुसन्ततम्

74.9

न दिग्विज्ञायते पूर्वा दक्षिणा वा न पश्चिमा ।
नोत्तरा तमसा सर्वमनुलिप्तमिवाभवत्

74.10

ततो ऽतिपूरेण नृपः स नद्याः प्रेरितस्तटम् ।
प्रार्थयन्नापि नावाप ह्रियमाणो महीपतिः

74.11

अथ दूरे जलौघेन ह्रियमाणो महीपतिः ।
आससाद जले रौहीं स पुच्छे जगृहे च ताम्

74.12

तेन प्लवेन स ययावूह्यमानो महीतले ।
इतश्चेतश्चान्धकारे आससाद तटन्ततः

74.13

विस्तारि पङ्कमत्यर्थं दुस्तरं स नृपस्तरन् ।
तथैव कृष्यमाणो ऽन्यद्रम्यं वनमवाप सः

74.14

तत्रान्धकारे सा रौही चकर्ष वसुधाधिपम् ।
पुच्छे लग्नं महाभागं कृशं धमनिसन्ततौ

74.15

तस्याश्च स्पर्शसंभूतामवापमुदमुत्तमाम् ।
सो ऽन्धकारे भ्रमन् भूयो मदनाकृष्टमानसः

74.16

विज्ञाय सानुरागं तं पृष्ठस्पर्शनतत्परम् ।
नरेन्द्रं तद्वनस्यान्तः सा मृगी तमुवाच ह

74.17

किं पृष्ठं वेपथुमता करेण स्पृशसे मम ।
अन्यथैवास्य कार्यस्य सञ्जाता नृपते गतिः

74.18

नास्थाने वो मनो यातं नागम्याहं तवेश्वर ।
किन्तु त्वत्सङ्गमे विघ्नमेष लोलः करोति मे

74.19

मार्कण्डेय उवाच
इति श्रुत्वा वचस्तस्या मृग्याश्च जगतीपतिः ।
जातकौतूहलो रौहीमिदं वचनमब्रवीत्

74.20

का त्वं ब्रूहि मृगी वाक्यं कथं मानुषवद्वदेत् ।
कश्चैव लोलो यो विघ्नं त्वत्सङ्गे कुरुते मम

74.21

मृग्युवाच
अहन्ते दयिता भूप ! प्रागासमुत्पलावती ।
भर्या शताग्रमहिषी दुहिता दृढधन्वनः

74.22

राजोवाच
किन्तु यावत् कृतं कर्म येनेमां योनिमागता ।
पतिव्रता धर्मपरा सा चेत्थं सथमीदृशी

74.23

मृग्युवाच
अहं पितृगृहे बाला सखीभिः सहिता वनम् ।
रन्तुं गता ददर्शैकं मृगं मृग्या समागतम्

74.24

ततः समीपवर्तिन्या मया सा ताडिता मृगी ।
मया त्रस्ता गतान्यत्र क्रुद्धः प्राह ततो मृगः

74.25

मूढे किमेवं मत्तासि धिक्ते दौः शील्यमीदृशम् ।
आधानकालो येनायं त्वया मे विफलीकृतः

74.26

वाचं श्रुत्वा ततस्तस्य मानुषस्येव भाषतः ।
भीता तमब्रुवं को ऽसीत्येतां योनिमुपागतः

74.27

ततः स प्राह पुत्रो ऽहमृषेर्निर्वृतिचक्षुषः ।
सुतपा नाम मृग्यान्तु साभिलाषो मृगो ऽभवम्

74.28

इमाञ्चानुगतः प्रेम्णा वाञ्छितश्चानया वने ।
त्वया वियोजिता दुष्टे तस्माच्छापं ददामि ते

74.29

मया चोक्तं तवाज्ञानादपराधः कृतो मुने ।
प्रसादं कुरु शापं मे न भवान् दातुमर्हति

74.30

इत्युक्तः प्राह मां सो ऽपि मुनिरित्थं महीपते ।
न प्रयच्छामि शापं ते यद्यात्मानं ददासि मे

74.31

मया चोक्तं मृगी नाहं मृगरूपधरा वने ।
लप्स्यसे ऽन्यां मृगीन्तावन्मयि भावो निवर्त्यताम्

74.32

इत्युक्तः कोपरक्ताक्षः स प्राह स्फुरिताधरः ।
नाहं मृगी त्वयेत्युक्तं मृगी मूढे भविष्यसि

74.33

ततो भृशं प्रव्यथिता प्रणम्य मुनिमब्रुवम् ।
स्वरूपस्थमतिक्रुद्धं प्रसीदेति पुनः पुनः

74.34

बालानभैज्ञा वाक्यानां ततः प्रोक्तमिदं मया ।
पितर्यसति नारीभिर्व्रियते हि पतिः स्वयम्

74.35

सति ताते कथञ्चाहं वृणोमि मुनिसत्तम ।
सापराधाथवा पादौ प्रसीदेश नमाम्यहम्

74.36

प्रसीदेति प्रसीदेति प्रणताया महामते ।
इत्थं लालप्यमानायाः स प्राह मुनिपुङ्गवः

74.37

न भवत्यन्यथा प्रोक्तं मम वाक्यं कदाचन ।
मृगी भविष्यसि मृता वने ऽस्मिन्नेव जन्मनि

74.38

मृगत्वे च महाबाहुस्तव गर्भमुपैष्यति ।
लोलो नाम मुनेः पुत्रः सिद्धवीर्यस्य भामिनि

74.39

जीतिस्मरा भवित्री त्वं तस्मिन् गर्भमुपागते ।
स्मृतिं प्राप्य तथा वाचं मानुषीमीरयिष्यसि

74.40

त्समिन् जाते मृगीत्वात् त्वं विमुक्ता पतिनार्चिता ।
लोकानवाप्स्यसि प्राप्या ये न दुष्कृतकर्मभिः

74.41

सो ऽपि लोलो महावीर्यः पितृशत्रून् निपात्य वै ।
जित्वा वसुन्दरां कृत्स्त्रां भविष्यति ततो मनुः

74.42

एवं शापमहं लब्ध्वा मृता तिर्यक्त्वमागता ।
त्वत्संस्पर्शाच्च गर्भो ऽसौ संभूतो जठरे मम

74.43

अतो ब्रवीमि नास्थाने तव यातं मनो मयि ।
न चाप्यगम्या गर्भस्थो लोलो विघ्नं करोत्यसौ

74.44

मार्कण्डेय उवाच
एवमुक्तस्ततः सो ऽपि राजा प्राप्य परां मुदम् ।
पुत्रो ममारीञ्जित्वेति पृथिव्यां भविता मनुः

74.45

ततस्तं सुषुवे पुत्रं सा मृगी लक्षणान्वितम् ।
तस्मिन् जाते च भूतानि सर्वाणि प्रययुर्मुदम्

74.46

विशेषतश्च राजासौ पुत्रे जाते महाबले ।
सा विमुक्ता मृगी शापात् प्राप लोकाननुत्तमान्

74.47

ततस्तस्यर्षयः सर्वे समेत्य मुनिसत्तम ।
अवेक्ष्य भाविनीमृद्धिं नाम चक्रुर्महात्मनः

74.48

तामसीं भजमानायां योनिं मातर्यजायत ।
तमसा चावृते लोके तामसो ऽयं भविष्यति

74.49

ततः स तामसस्तेन पित्रा संवर्धितो वने ।
जातबुद्धिरुवाचेदं पितरं मुनिसत्तम

74.50

कस्त्वं तात कथं वाहं पुत्रो माता च का मम ।
किमर्थमागतश्च त्वमेतत् सत्यं ब्रवीहि मे

74.51

मार्कण्डेय उवाच
ततः पिता यथावृत्तं स्वराज्यच्यावनादिकम् ।
तस्याचष्टे महाबहुः पुत्रस्य जगतीपतिः

74.52

श्रुत्वा तत् सकलं सो ऽपि समाराध्य च भारस्करम् ।
अवाच दिव्यान्यस्त्राणि ससंहाराण्यशेषतः

74.53

कृतास्त्रस्तानरीन् जित्वा पितुरानीय चान्तिकम् ।
अनुज्ञातान् मुनोचाथ तेन स्वं धर्ममास्थितः

74.54

पितापि तस्य स्वान् लोकांस्तपोयज्ञसमार्जितान् ।
विसृष्टदेहः संप्राप्तो दृष्ट्वा पुत्रमुखं सुखम्

74.55

जित्वा समस्तां पृथिवीं तामसाख्यः स पार्थिवः ।
तामसाख्यो मनुरभुत्तस्य मन्वन्तरं शृणु

74.56

ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः ।
ये पुत्राश्च मनोस्तस्य पृथिवीपरिपालकाः

74.57

सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा ।
एते देवगणास्तत्र सप्तविंशतिका मुने

74.58

महाबलो महावीर्यः शतयज्ञोपलक्षितः ।
शिखिरिन्द्रस्तथा तेषां देवानामभवद्विभुः

74.59

ज्योतिर्धर्मा पृथुः काव्यश्चैत्रो ऽग्निर्वलकस्तथा ।
पीवरश्च तथा ब्रह्मन् ! सप्त गप्तर्षयो ऽभवन्

74.60

नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा ।
पुत्रास्तु तामसस्यासन् राजानः सुमहाबलाः

74.61

इत्येतत्तामसं विप्र मन्वन्तरमुदाहृतम् ।
यः पठेत् शृणुयाद्वापि तमसा सन बाध्यते

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc