भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 59

59.1

इति श्रीमार्कण्डेयपुराणे कूर्मनिवेशो नामाष्टपञ्चाशो ऽध्यायः
ऊनषष्टितमो ऽध्यायः- 59
मार्कण्डेय उवाच
एवन्तु भारतं वर्षं यथावत् कथितं मुने ।
कृतं त्रेता द्वापरञ्च तथाथिष्यं चतुष्टयम्

59.2

अत्रैवैतद्युगानान्तु चातुर्वर्ण्यो ऽत्र वै द्विज ।
चत्वारि त्रीणि द्वे चैव तथैकञ्च शरच्छतम्

59.3

जीवन्त्यत्र नरा ब्रह्मन् ! कृतत्रेतादिके क्रमात् ।
देवकूटस्य पूर्वस्य शैलेन्द्रस्य महात्मनः

59.4

पूर्वेण यत् स्थितं वर्षं भद्राश्वं तन्निबोध मे ।
श्वेतपर्णश्च नीलश्च शैवालश्चाचलोत्तमः

59.5

कौरञ्जः पर्णशालाग्रः पञ्चैते तु कुलाचलाः ।
तेषां प्रसूतिरन्ये ये बहवः क्षुद्रपर्वताः

59.6

तैर्विशिष्टा जनपदा नानारूपाः सहस्रशः ।
ततः कुमुदसंकाशाः शुद्धसानुसुमङ्गलाः

59.7

इत्येवमादयो ऽन्ये ऽपि शतशो ऽथ सहस्रशः ।
सीता शङ्खावती भद्रा चक्रावर्तादिकास्तथा

59.8

नद्यो ऽथ बह्व्यो विस्तीर्णाः शीततोयौघवाहिकाः ।
अत्र वर्षे नराः शङ्खशुद्धहेमसमप्रभाः

59.9

दिव्यसङ्गमिनः पुण्या दशवर्षशतायुषः ।
मन्दोत्तमौ न तेषु स्तः सर्वे ते समदर्शनाः

59.10

तितिक्षादिभिरष्टाभैः प्रकृत्या ते गुणैर्युताः ।
तत्राप्यश्वशिरा देवश्चतुर्बाहुर्जनार्दनः

59.11

शिरोहृदयोमेढ्राङ्घ्रिहस्तैश्चाक्षित्रयान्वितः ।
तस्याप्यथैवं विषया विज्ञेया जगतः प्रभोः

59.12

केतुमालमतो वर्षं निबोध मम पश्चिमम् ।
विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः

59.13

विशोको वर्धमानश्च सप्तैते कुलपर्वताः ।
अन्ये सहस्रशः शैला येषु लोकगणः स्थितः

59.14

मौलयस्ते महाकायाः शाकपोतकम्भकाः ।
अङ्गुलप्रमुखाश्चापि वसन्ति शतशो जनाः

59.15

ये पिबन्ति महानद्यो वङ्क्षुं श्यामां सकम्बलाम् ।
अमोघां कामिनीं श्यामां तथैवान्याः सहस्रशः

59.16

अत्राप्यायुः समं पूर्वैरत्रापि भगवान् हरिः ।
वराहरूपी पादास्यहृत्पृष्ठपार्श्वतस्तथा

59.17

त्रिनक्षत्रयुते देशे नक्षत्राणि शुभानि च ।
इत्येतत् केतुमालन्ते कथितं मुनिसत्तम

59.18

अतः परं कुरून् वक्ष्ये निबोधेह ममोत्तरान् ।
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः

59.19

वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ।
सर्वकामप्रदास्ते हि सर्वकामफलप्रदाः

59.20

भूमिर्मणिमयी वायुः सुगन्धः सर्वदा सुखः ।
जायन्ते मानवास्तत्र देवलोकपरिच्युताः

59.21

मिथुनानि प्रसूयन्ते समकालस्थितानि वै ।
अन्योन्यमनुरक्तानि चक्रवाकोपमानि च

59.22

चतुर्दशसहस्राणि तेषां सार्धानि वै स्थितिः ।
चन्द्रकान्तश्च शैलेन्द्रः सूर्यकान्तस्तथापरः

59.23

तस्मिन् कुलाचलौ वर्षे तन्मध्ये च महानदी ।
भद्रसोमा प्रयात्युर्व्यां पुण्यामलजलौघिनी

59.24

सहस्रशस्तथैवान्या नद्यो वर्षे ऽपि चोत्तरे ।
तथान्याः क्षीरवाहिन्यो घृतवाहिन्य एव च

59.25

दध्नो ह्रदास्तथा तत्र तथान्ये चानुपर्वताः ।
अमृतास्वादकल्पानि फलानि विविधानि च

59.26

वनेषु तेषु वर्षेषु शतशो ऽथ सहस्रशः ।
तत्रापि भगवान् विष्णुः प्राक्शिरा मत्स्यरूपवान्

59.27

विभक्तो नवधा विप्र ! नक्षत्राणां त्रयं त्रयम् ।
दिशस्तथापि नवधा विभक्ता मुनिसत्तम

59.28

चन्द्रद्वीपः समुद्रे च भद्रद्वीपस्तथापरः ।
तत्रापि पुण्यो विख्यातः समुद्रान्तर्महामुने

59.29

इत्येतत् कथितं ब्रह्मन् ! कुरुवर्षं मयोत्तरम् ।
शृणु किंपुरुषादीनि वर्षाणि गदतो मम

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc