भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 18

18.1

इति श्रीमार्कण्डेपुराणे पितापुत्रसंवादे दत्तात्रेयोत्पत्तिर्नाम सप्तदशो ऽध्यायः
अष्टादशो ऽध्यायः
पुत्र उवाच
कस्यचित्त्वथ कालस्य कृतवीर्यात्मजोर्ऽजुनः ।
कृतवीर्ये दिवं याते मन्त्रिभिः सपुरोहितैः

18.2

पौरैश्चात्माभिषेकार्थं समाहूतो ऽब्रवीदिदम् ।
नाहं राज्यं करिष्यामि मन्त्रिणो नरकोत्तरम्

18.3

यदर्थं गृह्यते शुल्कं तदनिष्पादयन् वृथा ।
पण्यानां द्वादशं भागं भूपालाय वणिग्जनः

18.4

दत्त्वार्थरक्षिभिर्मार्गे रक्षितो याति दस्युतः ।
गोपाश्च घृततक्रादेः षड्भागञ्च कृषीबलाः

18.5

दत्त्वान्यद्भूभुजे दद्युर्यदि भागं ततो ऽधिकम् ।
पण्यादीनामशेषाणां वणिजो गृह्णतस्ततः

18.6

इष्टापूर्तविनाशाय तद्राज्ञश्चौरधर्मिणः ।
यद्यन्यैः पाल्यते लोकस्तद्वृत्तयन्तरसंश्रितैः

18.7

गृह्णतो बलिषड्भागं नृपतेर्नरको ध्रुवम् ।
निरूपितमिदं राज्ञः पूर्वै रक्षणवेतनम्

18.8

अरक्षंश्चौरतश्चौर्यं तदेनो नृपतेर्भवेत् ।
तस्माद्यदि तपस्तप्त्वा प्राप्तो योगित्वमीप्सितम्

18.9

भुवः पालनसामर्थ्य-युक्त एको महीपतिः ।
पृथिव्यां शस्त्रधृङ्मान्यस्त्वहमेवर्धिसंयुतः ।
ततो भविष्ये नात्मानं करिष्ये पापभागिनम्

18.10

पुत्र उवाच
तस्य तन्निश्चयं ज्ञात्वा मन्त्रिमध्यस्थितो ऽब्रवीत् ।
गर्गो नाम महाबुद्धिर्मुनिश्रेष्ठो वयो ऽतिगः

18.11

यद्येवं कर्तुकामस्त्वं राज्यं सम्यक् प्रशासितुम् ।
ततो शृणुष्व मे वाक्यं कुरुष्व च नृपात्मज

18.12

दत्तात्रेयं महाभागं सह्यद्रोणीकृताश्रयम् ।
तमाराधय भूपाल ! पाति यो भुवनत्रयम्

18.13

योगयुक्तं महाभागं सर्वत्र समदर्शिनम् ।
विष्णोरंशं जगद्धातुरवतीर्णं महीतले

18.14

यमाराध्य सहस्राक्षः प्राप्तवान् पदमात्मनः ।
हृतं दुरात्मभिर्दैत्यैर्जघान च दितेः सुतान्

18.15

अर्जुन उवाच
कथमाराधितो देवैर्दत्तात्रेयः प्रतापवान् ।
कथञ्चापहृतं दैत्यैरिन्द्रत्वं प्राप वासवः

18.16

गर्ग उवाच
देवानां दानवानाञ्च युद्धमासीत् सुदारुणम् ।
दैत्यानामीश्वरो जम्भो देवानाञ्च शचीपतिः

18.17

तेषाञ्च युध्यमानानां दिव्यः संवत्सरो गतः ।
ततो देवाः पराभूता दैत्या विजयिनो ऽभवन्

18.18

विप्रचित्तिमुखैर्देवा दानवैस्ते पराजिताः ।
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये

18.19

बृहस्पतिमुपागम्य दैत्यसैन्यवधेप्सवः ।
अमन्त्रयन्त सहिता बालखिल्यैस्तथर्षिभिः

18.20

बृहस्पतिरुवाच
दत्तात्रेयं महात्मानमत्रेः पुत्रं तपोधनम् ।
विकृताचरणं भक्त्या सन्तोषयितुमर्हथ

18.21

स वो दैत्यविनाशाय वरदो दास्यते वरम् ।
ततो हनिष्यथ सुरा सहिता दैत्यदानवान्

18.22

गर्ग उवाच
इत्युक्तास्ते तदा जग्मुर्दत्तात्रेयाश्रमं सुराः ।
ददृशुश्च महात्मानं तं ते लक्ष्म्या समन्वितम्

18.23

उद्गीयमानं गन्धर्वैः सुरापानरतं मुनिम् ।
ते तस्य गत्वा प्रणतिमवदन् साध्यसाधनम्

18.24

चक्रुः स्तवञ्चोपजह्रुर्भक्ष्यभोज्यस्त्रगादिकम् ।
तिष्ठन्तमनुतिष्ठन्ति यान्तं यान्ति दिवौकसः

18.25

आराधयामासुरधः स्थितास्तिष्ठन्तमासने ।
स प्राह प्रणतान् देवान् दत्तात्रेयः किमिष्यते ।
मत्तो भवद्भिर्येनेयं शुश्रूषा क्रियते मम

18.26

देवा ऊचुः
दानवैर्मुनिशार्दूल ! जम्भाद्यैर्भूर्भुवादिकम् ।
हृतं तैलोक्यमाक्रम्य क्रतुभागाश्च कृत्स्नशः

18.27

तद्वधे कुरु बुद्धिं त्वं परित्राणाय नो ऽनघ ।
त्वत्प्रसादादभीप्सामः पुनः प्राप्तं त्रिविष्टपम्

18.28

दत्तात्रेय उवाच
मद्यासक्तो ऽहमुच्छिष्टो न चैवाहं जितेन्द्रियः ।
कथमिच्छथ मत्तो ऽपि देवाः शत्रुपराभवम्

18.29

देवा ऊचुः
अनघस्त्वं जगन्नाथ न लेपस्तव विद्यते ।
विद्याक्षालनशुद्धान्तर्निविष्टज्ञानदीधिते !

18.30

दत्तात्रेय उवाच
सत्यमेतत् सुरा विद्या ममास्ति समदर्शिनः ।
अस्यास्तु योषितः सङ्गादहमुच्छिष्टतां गतः

18.31

स्त्रीसम्भोगो हि दोषाय सातत्येनोपसेवितः ।
एवमुक्तास्ततो देवाः पुनर्वचनमब्रुवन्

18.32

देवा ऊचुः
अनघेयं द्विजश्रेष्ठ जगन्माता न दुष्यते ।
यथांशुमाला सूर्यस्य द्विज-चाण्डालसङ्गिनी

18.33

गर्ग उवाच
एवमुक्तस्ततो देवैर्दत्तात्रेयो ऽब्रवीदिदम् ।
प्रहस्य त्रिदशान् सर्वान् यद्येतद्भवतां मतम्

18.34

तदाहूयासुरान् सर्वान् युद्धाय सुरसत्तमाः ।
इहानयत मद्दृष्टिगोचरं मा विलम्बतः

18.35

मद्दृष्टिपातहुतभुक्-प्रक्षीणबलतेजसः ।
येन नाशमशेषास्ते प्रयान्ति मम दर्शनात्

18.36

गर्ग उवाच
तस्य तद्वचनं श्रुत्वा देवैर्दैत्या महाबलाः ।
आहवाय समाहूता जग्मुर्देवगणान् रुषा

18.37

ते हन्यमाना दैतेयैर्देवा शीघ्रं भयातुराः ।
दत्तात्रेयाश्रमं जग्मुः समेताः शरणार्थिनः

18.38

तमेव विविशुर्दैत्याः कालयन्तो दिवौकसः ।
ददृशुश्च महात्मानं दत्तात्रेयं महाबलम्

18.39

वामपार्श्वस्थितामिष्टामशेषजगतां शुभाम् ।
भार्याञ्चास्य सुचार्वङ्गीं लक्ष्मीमिन्दुनिभाननाम्

18.40

नीलोत्पलाभनयनां पीनश्रोणिपयोधराम् ।
गदन्तीं मधुरां भाषां सर्वैर्योषिद्गुणैर्युताम्

18.41

ते तां दृष्ट्वाग्रतो दैत्याः साभिलाषा मनोभवम् ।
न शेसुरुद्धतं धैर्यान्मनसा वोढुमातुराः

18.42

त्यक्त्वा देवान् स्त्रियं तां तु हर्तुकामा हतौजसः ।
तेन पापेन मुह्यन्तः संशक्तास्ते ततो ऽब्रुवन्

18.43

स्त्रोरत्नमेतत् त्रैलोक्ये सारं नो यदि वै भवेत् ।
कृतकृत्यास्ततः सर्व इति नो भावितं मनः

18.44

तस्मात् सर्वे समुत्क्षिप्य शिविकायां सुरार्दनाः ।
आरोप्य स्वमधिष्ठानं नयाम इति निश्चिताः

18.45

गर्ग उवाच
सानुरागास्ततस्ते तु प्रोक्ताश्चेत्त्थं परस्परम् ।
तस्य तां योषितं साध्वीं समुत्क्षिप्य स्मरार्दिताः

18.46

शिविकायां समारोप्य सहिता दैत्यदानवाः ।
शिरः सु शिविकां कृत्वा स्वस्थानाभिमुखं ययुः

18.47

दत्तात्रेयस्ततो देवान् विहस्येदमथाब्रवीत् ।
दिष्ट्या वर्धथ दैत्यानामेषा लक्ष्मीः शिरोगता ।
सप्त सथानान्यतिक्रान्ता नवमन्यमुपैष्यति

18.48

देवा ऊचुः
कथयस्व जगन्नाथ ! केषु स्थानेष्वस्थिता ।
पुरुषस्य फलं किं वा प्रयच्छत्यथ नश्यति

18.49

दत्तात्रेय उवाच
नृणां पदे स्थिता लक्ष्मीर्निलयं सम्प्रयच्छति ।
सक्थ्न्योश्च संस्थिता वस्त्रं तथा नानाविधं वसु

18.50

कलात्रञ्च गुह्यसंस्था क्रोडस्थापत्यदायिनी ।
मनोरथान् पूरयति पुरुषाणां हृदि स्थिता

18.51

लक्ष्मीर्लक्ष्मीवतां श्रेष्ठा कण्ठस्था कण्ठभूषणम् ।
अभीष्टबन्धुदारैश्च तथाश्लेषं प्रवासिभिः

18.52

सृष्टानुवाक्यलावण्यमाज्ञामवितथां तथा ।
मुखसंस्था कवित्वञ्च यच्छत्युदधिसम्भवा

18.53

शिरोगता सन्त्यजति ततो ऽन्यं याति चाश्रयम् ।
सेयं शिरोगता चैतान् परित्यक्ष्यति साम्प्रतम्

18.54

प्रगृह्यास्त्राणि बध्यन्तां तस्मादेते सुरारयः ।
न भेतव्यं भृशञ्चैते मया निस्तेजसः कृताः ।
परदारावमर्षाच्च दग्धपुण्या हतौजसः

18.55

ततस्ते विविधैरस्त्रैर्वध्यमानाः सुरारयः ।
मूध्नि लक्ष्म्या समाक्रान्ता विनेशुरिति नः श्रुतम्

18.56

लक्ष्मीश्चीत्पत्य सम्प्राप्ता दत्तात्रेयं महामुनिम् ।
स्तूयमाना सुरैः सर्वैर्दैत्यनाशान्मुदान्वितैः

18.57

प्रणिपत्य ततो देवा दत्तात्रेयं मनीषिणम् ।
नाकपृष्ठमनुप्राप्ता यथापूर्वं गतज्वराः

18.58

तथा त्वमपि रोजेन्द्र ! यदीच्छसि यथेप्सितम् ।
प्राप्तुमैश्वर्यमतुलं तूर्णमाराधयस्व ताम्

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc