भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 17

17.1

इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे अनसूयावरप्राप्तिर्नाम षोडशो ऽध्यायः
सप्तदशो ऽध्यायः
पुत्र उवाच
ततः काले बहुतिथे द्वितीयो ब्रह्मणः सुतः ।
स्वभार्यां भगवानत्रिरनसूयामपश्यत

17.2

ऋतुस्नातां सुचार्वङ्गीं लोभनीयोत्तमाकृतिम् ।
सकामो मनसा भेजे स मुनिस्तामनिन्दिताम्

17.3

तस्याभिध्यायतस्तान्तु विकारो यो ऽन्वजायत ।
तमेवोवाह पवनस्तिरश्चोर्ध्वञ्च वेगवान्

17.4

ब्रह्मरूपञ्च शुक्लाभं पतमानं समन्ततः ।
सोमरूपं रजोपेतं दिशस्तं जगृहुर्दश

17.5

स सोमो मानसो जज्ञे तस्यामत्रेः प्रजापतेः ।
पुत्रः समस्तसत्त्वानामायुराधार एव च

17.6

तुष्टेन विष्णुना जज्ञे दत्तात्रेयो महात्मना ।
स्वशरीरात् समुत्पाद्य सत्त्वोद्रिक्तो द्विजात्तमः

17.7

दत्तात्रेय इति ख्यातः सो ऽनसूयास्तनं पपौ ।
विष्णुरेवावतीर्णो ऽसौ द्वितीयो ऽत्रेः सुतो ऽभवत्

17.8

सप्ताहात् प्रच्युतो मातुरुदरात् कुपितो यतः ।
हैहयेन्द्रमुपावृत्तमपराध्यन्तमुद्धतम्

17.9

दृष्ट्वात्रौ कुपितः सद्यो दग्धुकामः स हैहयम् ।
गर्भवासमहायास-दुः खामर्षसमन्वितः

17.10

दुर्वासास्तमसोद्रिक्तो रुद्रांशः समजायत ।
इति पुत्रत्रयं तस्या जज्ञे ब्रह्मेशवैष्णवम्

17.11

सोमो ब्रह्मभवद्विष्णुर्दत्तात्रेयो व्यजायत ।
दुर्वासाः शङ्करो जज्ञे वरदानाद्दिवौकसाम्

17.12

सोमः स्वरश्मिभैः शीतैर्वोरुधौषधिमानवान् ।
आप्याययन् सदा स्वर्गे वर्तते स प्रजापतिः

17.13

दत्तात्रेयः प्रजां पाति दुष्टदैत्यनिबर्हणात् ।
शिष्टानुग्रहकृच्चेति ज्ञेयश्चांशः स वैष्णवः

17.14

निर्दहत्यवमन्तारं दुर्वासा भगवानजः ।
रौद्रं समाश्रित्य वपुर्दृङ्मनोवाग्भिरुद्धतः

17.15

सोमत्वं भगवानत्रैः पुनश्चक्रे प्रजापतिः ।
दत्तात्रेयो ऽपि विषयान् योगास्थो बुभुजे हरिः

17.16

दुर्वासाः पितरं हित्वा मातरञ्चोत्तम व्रतम् ।
उन्मत्ताख्यं समाश्रित्य परिबभ्राम मेदिनीम्

17.17

मुनिपुत्रवृतो योगी दत्तात्रेयो ऽप्यसङ्गिताम् ।
अभीप्स्यमानः सरसि निममज्ज चिरं प्रभुः

17.18

तथापि तं महात्मानमतीव प्रियदर्शनम् ।
तत्यजुर्न कुमारास्ते सरसस्तीरमाश्रिताः

17.19

दिव्ये वर्षशते पूर्णे यदा ते न त्यजन्ति तम् ।
तत्प्रीत्या सरसस्तीरं सर्वे मुनिकुमारकाः

17.20

ततो दिव्याम्बरधरां चारुपीननितम्बिनीम् ।
नारीमादाय कल्याणीमुत्तितार जलान्मुनिः

17.21

स्त्रीसन्निकर्षाद्यद्येते परित्यक्ष्यन्ति मामिति ।
मुनिपुत्रास्ततो ऽसङ्गी स्थास्यामीति विचिन्तयन्

17.22

तथापि तं मुनिसुता न त्यजन्ति यदा मुनिम् ।
ततः सह तया नार्या मद्यपानमथापिबत्

17.23

सुरापानरतं ते न सभार्यं तत्यजुस्ततः ।
गीतवाद्यादिवनिता-भोगसंसर्गदूषितम्

17.24

मन्यमाना महात्मानं पीतासव-सविक्रियम् ।
नावाप दोषं योगीशो वारुणीं स पिबन्नपि

17.25

अन्तावसायिवेश्मान्तर्मातरिश्वा वसन्निव ।
सुरां पिबन् सपत्नीकस्तपस्तेपे स योगवित् ।
योगीश्वारश्चिन्त्यमानो योगिभिर्मुक्तिकाङ्क्षिभिः

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc