भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीनामसंगीति · श्लोक 81-100

81

त्रैलोक्यैककुमाराङ्गः स्थविरो वृद्धः प्रजापतिः
द्वात्रिंशल्लक्षणधरः कान्तस् त्रैलोक्यसुन्दरः ॥

82

लोकज्ञानगुणाचार्यो लोकाचार्यो विशारदः
नाथस् त्राता त्रिलोकाप्तः शरणं ताय्य् अनुत्तरः ॥

83

गगनाभोगसंभोगः सर्वज्ञज्ञानसागरः
अविद्याण्डकोशसंभेत्ता भवपञ्जरदारणः ॥

84

शमिताशेषसंक्लेशः संसारार्णवपारगः
ज्ञानाभिषेकमुकुटः सम्यक्संबुद्धभूषणः ॥

85

त्रिदुःखदुःखशमनस् त्र्यन्तो ऽनन्तस् त्रिमुक्तिगः
सर्वावरणनिर्मुक्त आकाशसमतां गतः ॥

86

सर्वक्लेशमलातितस् त्र्यध्वानध्वगतिं गतः
सर्वसत्त्वमहानागो गुणशेखरशेखरः ॥

87

सर्वोपाधिविनिर्मुक्तो व्योमवर्त्मनि सुस्थितः
महाचिन्तामणिधरः सर्वरत्नोत्तमो विभुः ॥

88

महाकल्पतरुः स्फीतो महाभद्रघटोत्तमः
सर्वसत्त्वार्थकृत् कर्ता हितैषी सत्त्ववत्सलः ॥

89

शुभाशुभज्ञः कालज्ञः समयज्ञः समयी विभुः
सत्त्वेन्द्रियज्ञो वेलज्ञो विमुक्तित्रयकोविदः ॥

90

गुणी गुणज्ञो धर्मज्ञः प्रशस्तो मङ्गलोदयः
सर्वमङ्गलमाङ्गल्यः कीर्तिर् लक्ष्मीर् यशः शुभः ॥

91

महोत्सवो महाश्वासो महानन्दो महारतिः
सत्कारः सत्कृतिर् भूतिः प्रमोदः श्रीर् यशस्पतिः ॥

92

वरेण्यो वरदः श्रेष्ठः शरण्यः शरणोत्तमः
महाभयारिः प्रवरो निःशेषभयनाशनः ॥

93

शिखी शिखण्डी जटिलो जटी मौण्डी किरीटिमान्
पञ्चाननः पञ्चशिखः पञ्चचीरकशेखरः ॥

94

महाव्रतधरो मौञ्जी ब्रह्मचारी व्रतोत्तमः
महातपास् तपोनिष्ठः स्नातको गौतमो ऽग्रणीः ॥

95

ब्रह्मविद् ब्राह्मणो ब्रह्मा ब्रह्मनिर्वाणम् आप्तवान्
मुक्तिर् मोक्षो विमोक्षाङ्गो विमुक्तिः शान्तता शिवः ॥

96

निर्वाणं निर्वृतिः शान्तिः श्रेयो निर्याणम् अन्तगः
सुखदुःखान्तकृन् निष्ठा वैराग्यम् उपाधिक्षयः ॥

97

अजयो ऽनुपमो ऽव्यक्तो निराभासो निरञ्जनः
निष्कलः सर्वगो व्यापी सूक्ष्मो बीजम् अनाश्रवः ॥

98

अरजो विरजो विमलो वान्तदोषो निरामयः
सुप्रबुद्धो विबुद्धात्मा सर्वज्ञाः सर्ववित् परः ॥

99

विज्ञानधर्मतातीतो ज्ञान् अमद्वयरूपधृक्
निर्विकल्पो निराभोगस् त्र्यध्वसंबुद्धकार्यकृत् ॥

100

अनादिनिधनो बुद्ध आदिबुद्धो निरन्वयः
ज्ञानैकचक्षुर् अमलो ज्ञानमूर्तिस् तथागतः ॥

मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18] · Data entry Ian Sinclair · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc