मञ्जुश्रीनामसंगीति · श्लोक 101-120
वागीश्वरो महावादी वादिराड् वादिपुङ्गवः
वदतां वरो वरिष्ठो वादिसिंहो ऽपराजितः ॥
समन्तदर्शी प्रमोद्यस् तेजोमाली सुदर्शनः
श्रीवत्सः सुप्रभो दीप्तिर् भा भासुरकरद्युतिः ॥
महाभिषग्वरः श्रेष्थः शल्यहर्ता निरुत्तरः
अशेषभैषज्यतरुः क्लेशव्याधिर् महारिपुः ॥
त्रैलोक्यतिलकः कान्तः श्रीमान् नक्षत्रमण्डलः
दशदिग्व्योमपर्य्यन्तो धर्मध्वजमहोच्छ्रयः ॥
जगच्छत्रैकविपुलो मैत्रीकरुणमण्डलः
पद्मनृत्येश्वरः श्रीमान् रत्नच्छत्रो महाविभुः ॥
सर्वबुद्धमहाराजः सर्वबुद्धात्मभावधृक्
सर्वबुद्धमहायोगः सर्वबुद्धैकशासनः ॥
वज्ररत्नाभिषेकश्रीः सर्वरत्नाधिपेश्वरः
सर्वलोकेश्वरपतिः सर्ववज्रधराधिपः ॥
सर्वबुद्धमहाचित्तः सर्वबुद्धमनोगतिः
सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती ॥
वज्रसूर्यो महालोको वज्रेन्दुविमलप्रभः
विरागादिमहारागो विश्ववर्णोज्ज्वलप्रभः ॥
संबुद्धवज्रपर्यङ्को बुद्धसंगीतिधर्मधृक्
बुद्धपद्मोद्भवः श्रीमान् सर्वज्ञज्ञानकोषधृक् ॥
विश्वमायाधरो राजा बुद्धविद्याधरो महान्
वज्रतीक्ष्नो महाखड्गो विशुद्धः परमाक्षरः ॥
दुःखच्छेदमहायान वज्रधर्ममहायुधः
जिनजिग् वज्रगाम्भीर्यो वज्रबुद्धिर् यथार्थवित् ॥
सर्वपारमितापूरी सर्वभूमिविभूषणः
विशुद्धधर्मनैरात्म्यः सम्यग्ज्ञानेन्दुहृत्प्रभः ॥
मायाजालमहोद्योगः सर्वतन्त्राधिपः परः
अशेषवज्रपर्यङ्को निःशेषज्ञानकायधृक् ॥
समन्तभद्रः सुमतिः क्षितिगर्भो जगद्धृतिः
सर्वबुद्धमहागर्भो विश्वनिर्माणचक्रधृक् ॥
सर्वभावस्वभावाग्र्यः सर्वभावस्वभाववद्ःर्क्
अनुत्पादधर्मा विश्वार्थः सर्वधर्मस्वभावद्ःर्क् ॥
एकक्षणमहाप्रज्ञः सर्वधर्मावबोधधृक्
सर्वधर्माभिसमयो भूतान्तमुनिर् अग्रधीः ॥
स्तिमितः सुप्रसन्नात्मा सम्यक्संबुद्धबोधिधृक्
प्रत्यक्षः सर्वबुद्धानां ज्ञानार्चिः सुप्रभास्वरः ॥
इष्टार्थसाधकः परः सर्वापायविशोधकः
सर्वसत्त्वोत्तमो नाथः सर्वसत्त्वप्रमोचकः ॥
क्लेशसंग्रामशूरैकः अज्ञानरिपुदर्पहा
धीः शृङ्गारधरः श्रीमान् वीरबीभत्सरूपधृक् ॥
मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18] · Data entry Ian Sinclair · GRETIL (Göttingen) · CC BY-NC-SA 4.0