मञ्जुश्रीनामसंगीति · श्लोक 61-80
घनैकसारो वज्रात्मा सद्योजातो जगत्पतिः
गगनोद्भवः स्वयम्भूः प्रज्ञाज्ञानानलो महान् ॥
वैरोचनो महादीप्तिर् ज्ञानज्योतिर् विरोचनः
जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः ॥
विद्याराजो ऽग्रमन्त्रेशो मन्त्रराजो महार्थकृत्
महोष्णीषो ऽद्भूतोष्णीषो विश्वदर्शी वियत्पतिः ॥
सर्वबुद्धात्मभावाग्र्यो जगदानन्दलोचनः
विश्वरूपी विधाता च पूज्यो मान्यो महाऋषिः ॥
कुलत्रयधरो मन्त्री महासमयमन्त्रधृक्
रत्नत्रयधरः श्रेष्ठस् त्रियानोत्तमदेशकः ॥
अमोघपाशो विजयी वज्रपाशो महाग्रहः
वज्राङ्कुशो महापाशः वज्रभैरवभीकरः ॥
क्रोधराट् षण्मुखो भीमः षण्नेत्रः षड्भूजो बली
दंष्ट्रकरालः कङ्कालो हलाहलः शताननः ॥
यमान्तको विघ्नराजो वज्रवेगो भयंकरः
विघुष्टवज्रो हृद्वज्रो मायावाज्रो महोदरः ॥
कुलिशेशो वज्रयोनिर् वज्रमण्डो नभोपमः
अचलैकजटाटोपो गजचर्मपटार्द्रधृक् ॥
हाहाकारो महाघोरो हीहीकारो भयानकः
अट्टहासो महाहासो वज्रहासो महारवः ॥
वज्रसत्त्वो महासत्त्वो वज्रराजो महासुखः
वज्रचण्डो महामोदो वज्रहूंकारहूंकृतिः ॥
वज्रबाणायुधधरो वज्रखड्गो निकृन्तनः
विश्ववज्रधरो वज्री एकवज्री रणञ्जहः ॥
वज्रज्वालाकरालाक्षो वज्रज्वालाशिरोरुहः
वज्रावेशो महावेशः शताक्षो वज्रलोचनः ॥
वज्ररोमाङ्कुरतनुर् वज्ररोमैकविग्रहः
वज्रकोटिनखारम्भो वज्रसारघनच्छविः ॥
वज्रमालाधरः श्रीमान् वज्राभरणभूषितः
हाहाट्टहासो निर्घोषो वज्रघोषः षडक्षरः ॥
मञ्जुघोषो महानादस् त्रैलोक्यैकरवो महान्
आकाशधातुपर्यन्त घोषो घोषवतां वरः ॥
तथताभूतनैरात्म्य भूतकोटिर् अनक्षरः
शून्यतावादिवृषभो गम्भीरोदारगर्जनः ॥
धर्मशङ्ख्यो महाशब्दो धर्मगण्डी महारणः
अप्रतिष्ठतनिर्वाणो दशदिग्धर्मदुन्दुभिः ॥
अरूपो रूपवान् अग्र्यो नानरूपो मनोमयः
सर्वरूपावभासश्रीर् अशेषप्रतिबिम्बधृक् ॥
अप्रधृष्यो महेशाख्यस् त्रैधातुकमहेश्वरः
समुच्छ्रितार्यमार्गस्थो धर्मकेतुर् महोदयः ॥
मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18] · Data entry Ian Sinclair · GRETIL (Göttingen) · CC BY-NC-SA 4.0