भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीनामसंगीति · श्लोक 21-40

21

महार्थां नामसंगीतिं पवित्राम् अघनाशिनीम्
मञ्जुश्रीज्ञानकायस्य मत्तः श्रोतुं समुद्यतः ॥

22

तत् साधु देशयाम्य् एषः अहं ते गुह्यकाधिप
शृणु त्वम् एकाग्रमनास् तत् साधु भगवन्न् इति ॥

23

अथ शाक्यमुनिर् भगवान् सकलं मन्त्रकुलं महत्
मन्त्रविद्याधरकुलं व्यवलोक्य कुलत्रयम् ॥

24

लोकलोकोत्तरकुलं लोकालोककुलं महत्
महामुद्राकुलं चाग्र्यं महोष्णीषकुलं महत् ॥

25

इमां षण्मन्त्रराजानां संयुक्ताम् अद्वयोदयाम्
अनुत्पादधर्मिणीं गाथां भाषते स्म गिरां पतेः ॥

26

अ आ इ ई उ ऊ ए ऐ ओ औ अं अः स्थितो हृदि
ज्ञानमूर्तिर् अहं बुद्धो बुद्धानां त्र्यध्ववर्तिनाम् ॥

27*

ओं वज्रतीक्ष्णदुःखच्छेदप्रज्ञाज्ञानमूर्तये ।
ज्ञानकायवागिश्वरारापचनाय ते नमः ॥

28

तद् यथा भगवान् बुद्धः संबुद्धो ऽकारसम्भवः
अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः ॥

29

महाप्राणो ह्य् अनुत्पादो वागुदाहारवर्जितः
सर्वाभिलापहेत्वग्र्यः सर्ववाक्सुप्रभास्वरः ॥

30

महामहमहारागः सर्वसत्त्वरतिंकरः
महामहमहाद्वेषः सर्वक्लेशमहारिपुः ॥

31

महामहमहामोहो मूढधीमोहसूदनः
महामहमहाक्रोधो महाक्रोधरिपुर् महान् ॥

32

महामहमहालोभः सर्वलोभनिषूदनः
महाकामो महासौख्यो महामोदो महारतिः ॥

33

महारूपो महाकायो महावर्णो महावपुः
महानामा महोदारो महाविपुलमण्डलः ॥

34

महाप्रज्ञायुधधरो महाक्लेशाङ्कुशो ऽग्रणीः
महायशा महाकीर्तिर् महाज्योतिर् महाद्युतिः ॥

35

महामायाधरो विद्वान् महामायार्थसाधकः
महामायारतिरतो महामायेन्द्रजालिकः ॥

36

महादानपतिः श्रेष्ठो महाशीलधरो ऽग्रणीः
महाक्षान्तिधरो धीरो महावीर्यपराक्रमः ॥

37

महाध्यानसमाधिस्थो महाप्रज्ञाशरीरद्ःऋक्
महाबलो महोपायः प्रणिधिर् ज्ञनसागरः ॥

38

महामैत्रीमयो ऽमेयो महाकारुणिको ऽग्रधीः
महाप्रज्ञो महाधीमान् महोपायो महाकृतिः ॥

39

महाऋद्धिबलोपेतो महावेगो महाजवः
महर्द्धिको महेशाख्यो महाबलपराक्रमः ॥

40

महाभवाद्रीसंभेत्ता महावज्रधरो घनः
महाक्रूरो महारौद्रो महाभयभयंकरः ॥

मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18] · Data entry Ian Sinclair · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc