मञ्जुश्रीनामसंगीति · श्लोक 41-60
महाविद्योत्तमो नाथो महामन्त्रोत्तमो गुरुः
महायाननयारूढो महायाननयोत्तमः ॥
महावैरोचनो बुद्धो महामौनी महामुनिः
महामन्त्रनयोद्भूतो महामन्त्रनयात्मकः ॥
दशपारमिताप्रप्तो दशपारमिताश्रयः
दशपारमिताशुद्धिर् दशपारमितानयः ॥
दशभूमीश्वरो नाथो दशभूमिप्रतिष्ठितः
दशज्ञानविशुद्धात्मा दशज्ञानविशुद्धधृक् ॥
दशाकारो दशार्थार्थो मुनीन्द्रो दशबलो विभुः
अशेषविश्वार्थकरो दशाकारवशी महान् ॥
अनादिर् निष्प्रपञ्चात्मा शुद्धात्मा तथतात्मकः
भूतवादी यथावादी तथाकारी अनन्यवाक् ॥
अद्वयो ऽद्वयवादी च भूतकोटिव्यवस्थितः
नैरात्म्यसिंहनिर्णादी कुतीर्थ्यमृगभीकरः ॥
सर्वत्रगो ऽमोघगतिस् तथागतमनोजवः
जिनो जितारिर् विजयो चक्रवर्ती महाबलः ॥
गणमुख्यो गणाचार्यो गणेशो गणपतिर् वशी
महानुभावो धौरेयो ऽनन्यनेयो महानयः ॥
वागीशो वाक्पतिर् वाग्मी वाचस्पतिर् अनन्तगीः
सत्यवाक् सत्यवादी च चतुःसत्योपदेशकः ॥
अवैवर्तिको ह्य् अनागामी खड्गः प्रत्येकनायकः
नानानिर्याणनिर्यातो महाभूतैककारणः ॥
अर्हन् क्षीणास्रवो भिक्षुर् वीतरागो जितेन्द्रियः
क्षेमप्राप्तो ऽभयप्राप्तः शीतीभूतो ह्य् अनाविलः ॥
विद्याचरणसंपन्नः सुगतो लोकवित् परः
निर्ममो निरहंकारः सत्यद्वयनयस्थितः ॥
संसारपारकोटिस्थः कृतकृत्यः स्थलस्थितः
कैवल्यज्ञाननिष्ठ्यूतः प्रज्ञाशस्त्रो विदारणः ॥
सद्धर्मो धर्मराड् भास्वांल् लोकालोककरः परः
धर्मेश्वरो धर्मराजः श्रेयोमार्गोपदेशकः ॥
सिद्धार्थः सिद्धसंकल्पः सर्वसंकल्पवर्जितह्
निर्विकल्पो ऽक्षयो धातुर् धर्मधातुः परो ऽव्ययः ॥
पुण्यवान् पुण्यसंभारो ज्ञानं ज्ञानाकरं महत्
ज्ञानवान् सदसज्ज्ञानी संभारद्वयसंभृतः ॥
शाश्वतो विश्वराड् योगी ध्यानं ध्येयो धियां पतिः
प्रत्यात्मवेद्यो ह्य् अचलः परमाद्यस् त्रिकायधृक् ॥
पञ्चकायात्मको बुद्धः पञ्चज्ञानात्मको विभुः
पञ्चबुद्धात्ममुकुटः पञ्चचक्षुर् असङ्गधृक् ॥
जनकः सर्वबुद्धानां बुद्धपुत्रः परो वरः
प्रज्ञाभवोद्भवो योनिर् धर्मयोनिर् भवान्तकृत् ॥
मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18] · Data entry Ian Sinclair · GRETIL (Göttingen) · CC BY-NC-SA 4.0