भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीनामसंगीति · श्लोक 1-20

1

अथ वज्रधरः श्रीमान् दुर्दान्तदमकः परः
त्रिलोकविजयी वीरो गुह्यराट् कुलिशेश्वरः ॥

2

विबुद्धपुण्डरीकाक्षः प्रोत्फुल्लकमलाननः
प्रोल्लालयन् वज्रवरं स्वकरेण मुहुर्मुहुः ॥

3

भृकुटीतरङ्गप्रमुखैर् अनन्तैर् वज्रपाणिभिः
दुर्दान्तदमकैर् वीरैर् वीरबीभत्सरूपिभिः ॥

4

उल्लालयद्भिः स्वकरैः प्रस्फुरद्वज्रकोटिभिः
प्रज्ञोपायमहाकरुणा जगदर्थकरैः परः ॥

5

हृष्टतुष्टाशयैर् मुदितैः क्रोधविग्रहरूपिभिः
बुद्धकृत्यकरैर् नाथैः सार्द्धं प्रणतविग्रहैः ॥

6

प्रणम्य नाथं संबुद्धं भगवन्तं तथागतम्
कृताञ्जलिपुटो भूत्वा इदम् आह स्थितो ऽग्रतः ॥

7

मद्धिताय ममार्थाय अनुकम्पाय मे विभो
मायाजालाभिसंबोधिं यथा लाभी भवाम्य् अहम् ॥

8

अज्ञानपङ्कमग्नानां क्लेशव्याकुलचेतसाम्
हिताय सर्वसत्त्वानाम् अनुत्तरफलाप्तये ॥

9

प्रकाशयतु संबुद्धो भगवाञ् शास्ता जगद्गुरुः
महासमयतत्त्वज्ञ इन्द्रयाशयवित् परः ॥

10

भगवज्ज्ञानकायस्य महोष्णीषस्य गीष्पतेह्
मञ्जुश्रीज्ञानसत्त्वस्य ज्ञानमूर्तेः स्वयम्भुवः ॥

11

गम्भीरार्थाम् उदारार्थं महार्थाम् असमां शिवाम्
आदिमध्यान्तकल्याणीं नामसंगीतिम् उत्तमाम् ॥

12

यातीतैर् भाषिता बुद्धैर् भाषिष्यन्ते ह्य् अनागताः
प्रत्युत्पन्नाश् च संबुद्धा यां भाषन्ते पुनः पुनः ॥

13

मायाजाले महातन्त्रे या चास्मिन् संप्रगीयते
महावज्रधरैर् हृष्टैर् अमेयैर् मन्त्रधारिभिः ॥

14

अहं चैनां धारयिष्याम्य् आ निर्याणां दृढाशयः
यथा भवाम्य् अहं नाथ सर्वसंबुद्धगुह्यधृक् ॥

15

प्रकाशयिष्ये सत्त्वानां यथाशयविशेषतः
अशेषक्लेशनाशाय अशेषाज्ञानहानये ॥

16

एवम् अध्येष्य गुह्येन्द्रो वज्रपाणिस् तथागतम्
कृताञ्जलिपुटो भूत्वा प्रह्वकायः स्थितो ऽग्रतः ॥

17

अथ शाक्यमुनिर् भगवान् संबुद्धो द्विपदोत्तमः
निर्णमय्यायतां स्फीतं स्वजिह्वां स्वमुखाच् छुभाम् ॥

18

स्मितं संदर्श्य लोकानाम् अपायत्रयशोधनम्
त्रिलोकाभासकरणं चतुर्मारारिशासनम् ॥

19

त्रिलोकम् आपूरयन्त्या ब्राह्म्या मधुरया गिरा
प्रत्यभाषत गुह्येन्द्रं वज्रपाणिं महाबलम् ॥

20

साधु वज्रधर श्रीमन् साधु ते वज्रपाणये
यस् तं जगद्धितार्थाय महाकरुणयान्वितः ॥

मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18] · Data entry Ian Sinclair · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc