भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीनामसंगीति · श्लोक 121-140

121

बाहुदुण्डशताक्षेपः पदनिक्षेपनर्त्तनः
श्रीमच्छतभुजाभोग गगनाभोगनर्त्तनः ॥

122

एकपादतलाक्रान्त महीमण्डतले स्थितः
ब्रह्माण्डशिखराक्रान्त पादाङ्गुष्ठनखे स्थितः ॥

123

एकार्थो ऽद्वयधर्मार्थः परमार्थो ऽविनश्वरः
नानाविज्ञप्तिरूपार्थश् चित्तविज्ञानसंततिः ॥

124

अशेषभावार्थरतिः शून्यतारतिर् अग्रधीः
भवरागाद्यतीतश् च भवत्रयमहारतिः ॥

125

शुद्धः शुभ्राभ्रधवलः शरच्चन्द्रांशुसुप्रभः
बालार्कमण्डलच्छायो महारागनखप्रभः ॥

126

इन्द्रनीलाग्रसच्चीरो महानीलकचाग्रधृक्
महामणिमयूखश्रीर् बुद्धनिर्वाणभूषणः ॥

127

लोकधातुशताकम्पी ऋद्धिपादमहाक्रमः
महास्मृतिधरस् तत्त्वश् चतुःस्मृतिसमाधिराट् ॥

128

बोध्यङ्गकुसुमामोदस् तथागतगुणोदधिः
अष्टाङ्गमार्गनयवित् सम्यक्संबुद्धमार्गवित् ॥

129

सर्वसत्त्वमहासङ्गो निःसङ्गो गगनोपमः
सर्वसत्त्वमनोजातः सर्वसत्त्वमनोजवः ॥

130

सर्वसत्त्वेन्द्रियार्थज्ञः सर्वसत्त्वमनोहरः
पञ्चस्कन्धार्थतत्त्वज्ञः पञ्चस्कन्धविशुद्धधृक् ॥

131

सर्वनिर्याणकोटिस्थः सर्वनिर्याणकोविदः
सर्वनिर्याणमार्गस्थः सर्वनिर्याणदेशकः ॥

132

द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक्
चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् ॥

133

द्वादशाकारसत्यार्थः षोडशाकारतत्त्ववित्
विंशत्याकारसंबोधिर् विबुद्धः सर्ववित् परः ॥

134

अमेयबुद्धनिर्माण कायकोटिविभावकः
सर्वक्षणाभिसमयः सर्वचित्तक्षणार्थवित् ॥

135

नानायाननयोपाय जगदर्थविभावकः
यानत्रितयनिर्यात एकयानफले स्थिथः ॥

136

क्लेशधातुविशुद्धात्मा कर्मधातुक्षयंकरः
ओघोदधिसमुत्तीर्णो योगकान्तारनिःसृतः ॥

137

क्लेशोपक्लेशसंक्लेश सुप्रहीणसवासनः
प्रज्ञोपायमहाकरुणा अमोघजगदर्थकृत् ॥

138

सर्वसंज्ञाप्रहीणार्थो विज्ञानार्थो निरोधकृत्
सर्वसत्त्वमनोविषयः सर्वसत्त्वमनोगतिः ॥

139

सर्वसत्त्वमनोऽन्तस्थस् तच्चित्तसमतां गतः
सर्वसत्त्वमनोह्लादी सर्वसत्त्वमनोरतिः ॥

140

सिद्धान्तो विभ्रमापेतः सर्वभ्रान्तिविवर्जितः
निःसंदिग्धमतिस् त्र्यर्थः सर्वार्थस् त्रिगुणात्मकः ॥

मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18] · Data entry Ian Sinclair · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc