मञ्जुश्रीनामसंगीति (अन्य संस्करण) · श्लोक 61-80
घनैकसारो वज्रात्मा सद्योजातो जगत्पतिः
गगनोद्भवः स्वयंभूः प्रज्ञाज्ञानानलो महान् ॥
वैरोचनो महादीप्तिर् ज्ञानज्योतिर् विरोचनः
जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः ॥
विद्याराजो ऽग्रमन्त्रेशो मन्त्रराजा महार्थकृत्
महोष्णीषो ऽद्भुतोष्णीषो विश्वदर्शी वियत्पतिः ॥
सर्वबुद्धात्मभावाग्र्यो जगदानन्दलोचनः
विश्वरूपी विधाता च पूज्यो मान्यो महाऋषिः ॥
कुलत्रयधरो मन्त्री महासमयमन्त्रधृक्
रत्नत्रयधरः श्रेष्ठस् त्रियानोत्तमदेशकः ॥
अमोघपाशो विजयी वज्रपाशो महाग्रहः
वज्राङ्कुशो महापाशो वज्रभैरवभीकरः ॥
क्रोधराट् षण्मुखो भीमः षड्नेत्रः षड्भुजो बली
दंष्ट्राकरालकङ्कालो हलाहलशताननः ॥
यमान्तको विघ्नराड् वज्रवेगो भयंकरः
विघुष्टवज्रो हृद्वज्रो मायावज्रो महोदरः ॥
कुलिशेशो वज्रयोनिर् वज्रमण्डो नभोपमः
अचलैकजटाटोपो गजचर्मपटार्द्रधृक् ॥
हाहाकारो महाघोरो हीहीकारो भयानकः
अट्टहासो महाहासो वज्रहासो महारवः ॥
वज्रसत्वो महासत्वो वज्रराजो महासुखः
वज्रचण्डो महामोदो वज्रहूंकारहूंकृतिः ॥
वज्रबाणायुधधरो वज्रखड्गो निकृन्तनः
विश्ववज्रधरो वज्री एकवज्री रणंजहः ॥
वज्रज्वालाकरालाक्षो वज्रज्वालाशिरोरुहः
वज्रावेशो महावेशः शताक्षो वज्रलोचनः ॥
वज्ररोमाङ्कुरतनुर् वज्ररोमैकविग्रहः
वज्रकोटिनखारम्भो वज्रसारघनच्छविः ॥
वज्रमालाधरः श्रीमां वज्राभरणभूषितः
हाहाट्टहास निर्घोषो वज्रघोषः षडक्षरः ॥
मञ्जुघोषो महानादस् त्रैलोक्यैकवरो महान्
आकाशधातुपर्यन्तो घोषो घोषवतां वरः ॥
तथाताभूतनैरात्म्यं भूतकोटिर् अनक्षरः
शून्यतावादिवृषभो गम्भीरोदारगर्जनः ॥
धर्मशङ्खो महाशब्दो धर्मगण्डी महारणः
अप्रतिष्ठितनिर्वाणो दशदिग्धर्मदुन्दुभिः ॥
अरूपो रूपवान् अग्र्यो नानारूपो मनोमयः
सर्वरूपावभासश्रीर् अशेषप्रतिबिम्बधृक् ॥
अप्रधृष्यो महेशाख्यस् त्रैधातुकमहेश्वरः
समुच्छ्रितार्यमार्गस्थो धर्मकेतुर् महोदयः ॥
मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0