मञ्जुश्रीनामसंगीति (अन्य संस्करण) · श्लोक 81-100
त्रैलोक्यैककुमाराङ्गः स्थविरो वृद्धः प्रजापतिः
द्वात्रिंशल्लक्षणधरः कान्तस् त्रैलोक्यसुन्दरः ॥
लोकज्ञानगुणाचार्यो लोकाचार्यो विशारदः
नाथस् त्राता त्रिलोकाप्तः शरणं तायी निरुत्तरः ॥
गगनाभोगसंभोगः सर्वज्ञज्ञानसागरः
अविद्याण्डकोशसंभेत्ता भवपञ्जरदारणः ॥
शमिताशेषसंक्लेशः संसारार्णवपारगः
ज्ञानाभिषेकमकुटः सम्यक्संबुद्धभूषणः ॥
त्रिदुःखदुःखशमनस् त्र्यन्तो ऽनन्तस् त्रिमुक्तिगः
सर्वावरणनिर्मुक्त आकाशसमतांगतः ॥
सर्वक्लेशमलातीतस् त्र्यध्वानध्वगतिंगतः
सर्वसत्वमहानागो गुणशेखरशेखरः ॥
सर्वोपधिविनिर्मुक्तो व्योमवर्त्मनि सुस्थितः
महाचिन्तामणिधरः सर्वरत्नोत्तमो विभुः ॥
महाकल्पतरुः स्फीतो महाभद्रघटोत्तमः
सर्वसत्वार्थकृत् कर्ता हितैषी सत्ववत्सलः ॥
शुभाशुभज्ञः कालज्ञः समयज्ञः समयी विभुः
सत्वेन्द्रियज्ञो वेलज्ञो विमुक्तित्रयकोविदः ॥
गुणी गुणज्ञो धर्मज्ञः प्रशस्तो मङ्गलोदयः
सर्वमङ्गलमाङ्गल्यः कीर्तिर् लक्ष्मीर् यशः शुभः ॥
महोत्सवो महाश्वासो महानन्दो महारतिः
सत्कारः सत्कृतिर् भूतिः प्रमोदः श्रीर् यशस्पतिः ॥
वरेण्यो वरदः श्रेष्ठः शरण्यः शरणोत्तमः
महाभयारिः प्रवरो निःशेषभयनाशनः ॥
शिखी शिखण्डी जटिलो जटी मौण्डी किरीटिमान्
पञ्चाननः पञ्चशिखः पञ्चचीरकशेखरः ॥
महाव्रतधरो मौञ्जी ब्रह्मचारी व्रतोत्तमः
महातपास् तपोनिष्ठः स्नातको गौतमो ऽग्रणीः ॥
ब्रह्मविद् ब्राह्मणो ब्रह्मा ब्रह्मनिर्वाणम् आप्तवान्
मुक्तिर् मोक्षो विमोक्षाङ्गो विमुक्तिः शान्तता शिवः ॥
निर्वाणं निर्वृतिः शान्तिः श्रेयो निर्याणम् अन्तकः
सुखदुःखान्तकृन् निष्ठा वैराग्यम् उपधिक्षयः ॥
अजयो ऽनुपमो ऽव्यक्तो निराभासो निरञ्जनः
निष्कलः सर्वगो व्यापी सूक्ष्मो बीजम् अनास्रवः ॥
अरजो विरजो विमलो वान्तदोषो निरामयः
सुप्रबुद्धो विबुद्धात्मा सर्वज्ञः सर्ववित् परः ॥
विज्ञानधर्मतातीतो ज्ञानम् अद्वयरूपधृक्
निर्विकल्पो निराभोगस् त्र्यध्वसंबुद्धकार्यकृत् ॥
अनादिनिधनो बुद्ध आदिबुद्धो निरन्य्वयः
ज्ञानैकचक्षुर् अमलो ज्ञानमूर्तिस् तथागतः ॥
मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0