भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीनामसंगीति (अन्य संस्करण) · श्लोक 161-167

161

अभवोद्भव नमस् ते ःस्तु नमस् ते बुद्धसंभव
गगनोद्भव नमस् तुभ्यं नमस् ते ज्ञानसंभव ॥

162

मायाजाल नमस् तुभ्यं नमस् ते बुद्धनाटक
नमस् ते सर्व सर्वेभ्यो ज्ञानकाय नमो ऽस्तु ते ॥

163

अथ वज्रधरः श्रीमां हृष्टतुष्टः कृताञ्जलिः
प्रणम्य नाथं संबुद्धं भगवन्तं तथागतं ॥

164

अन्यैश् च बहुविधैर् नाथैर् गुह्येन्द्रैर् वज्रपाणिभिः
स सार्धं क्रोधराजानैः प्रोवाचोच्चैर् इदं वचः ॥

165

अनुमोदामहे नाथ साधु साधु सुभाषितं
कृतो ऽस्माकं महान् अर्थः सम्यक्संबोधिप्रापकः ॥

166

जगतश् चाप्य् अनाथस्य विमुक्तिफलकांक्षिणः
श्रेयोमार्गो विशुद्धो ऽयं मायाजालनयोदितः ॥

167

गम्भीरोदारवैपुल्यो महार्थो जगदर्थकृत्
बुद्धानां विषयो ह्य् एष सम्यक्संबुद्धदेशितः ॥

मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc