मञ्जुश्रीमूलकल्प · अध्याय 7
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् मञ्जुश्रीमूलकल्पात् षष्ठः पटलविसरः । तृतीयः कन्यसपटविधानः परिसमाप्त इति ॥
सप्तमः पटलविसरः ।
अथ खलु मञ्जुश्रीः कुमारभूत उत्थायासनाद् भगवन्तं शाक्यमुनिं त्रिः प्रदक्षिणीकृत्य, भगवतश्चरणयोर्निपत्य, भगवन्तमेवमाह - साधु साधु भगवता यस्तथागतेनार्हता सम्यक् सम्बुद्धेन सुभाषितो ऽयं धर्मपर्यायः सर्वविद्याव्रतचारिणामर्थाय हिताय सुखाय लोकानुकम्पायै बोधिसत्त्वानामुपायकौशल्यता दर्शिता निर्वाणोपरिगामिनी वर्त्मोपविशेषा नियतं बोधिपरायणा सन्ततिर्बोधिसत्त्वानां सर्वमन्त्रार्थचर्यासाधनीयमेतन्मन्त्ररहस्यसर्वजनविस्तारणकरी भविष्यत्यनागते ऽध्वनि निर्वृते लोकगुरौ अस्तमिते तथागतादित्यं वंशे रिञ्चिते सर्वबुद्धक्षेत्रे सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धैः अन्धकारीभूते लोकभाजने, विच्छिन्ने आर्यमार्गे, सर्वविद्यामन्त्रोषधिमणिरत्नोपगते साधुजनपरिहीणे निरालोके सत्त्वधातौ सत्त्वा भविष्यन्ति कुसीदा नष्टस्पृहतया अश्राद्धाः खण्डका अकल्याणमित्रपरिगृहीताः शठाः मायाविनो धूर्तचरिताः । ते इमं धर्मपर्यायं श्रुत्वा च सत्रासमापत्स्यन्ते । आलस्यकौसीद्याभिरता न श्रद्धास्यन्ति कामगवेषिणो न पतीष्यन्ति मिथ्यादृष्टिरताः । ते बहु अपुण्यं प्रसविष्यन्ति सद्धर्मप्रतिपक्षेपकाः अवीचिपरायणाः घोराद् घोरतरं गताः । तेषां दुःखितानामर्थाय अवशानां वशमानेता वश्यानां भयप्रदाय उपायकौशल्यसङ्ग्रहया मन्त्रपटविधानं भाषतु भगवां । यस्येदानीं कालं मन्यसे ॥
अथ भगवान् शाक्यमुनिः मञ्जुश्रियं कुमारभूतं साधुकारमदात् । साधु साधु मञ्जुश्रीः यस्त्वं तथागतमर्थं परिप्रष्टव्यं मन्यसे । अस्ति मञ्जुश्रीः त्वदीयं परमं गुह्यतमं विद्याव्रतसाधनचर्यापटलपटविधानविसरं परमहृदयानामर्थं परमं गुह्यतमं महार्थं निधानभूतं सर्वमन्त्राणां, षडेते षडाक्षरपरमहृदयाः अविकल्पतो तस्मिं काले सिद्धिं गच्छन्ति । तेषां सत्त्वानां दमनाय उपायकौशल्यसम्भारसमन्त्रप्रवेशनताय नियतं सम्बोधिप्रापणताया षट्सप्ततिबुद्धकोटिभिः पूर्वभाषितमहमप्येतर्हि इदानीं भाषिष्ये । अनागतजनतापेक्षाय तं शृणु साधु च सुष्ठु च मनसि कुरु । भाषिष्ये ऽहं ते । कतमं च तत् ॥
अथ खलु भगवां शाक्यमुनिर्मन्त्रं भाषते स्म - ओम् वाक्यार्थे जय । ओम् वाक्यशेषे स्व । ओम् वाक्येयनयः । ओम् वाक्यनिष्ठेयः । ओम् वाक्येयनमः । ओम् वाक्येदनमः । इत्येते मञ्जुश्रीः त्वदीयषड्मन्त्राः षडक्षराः महाप्रभावाः तुल्यसमवीर्याः परमहृदयाः परमसिद्धाः बुद्धमिवोत्पन्नाः सर्वसत्त्वानामर्थाय सर्वबुद्धैः सम्प्रभाषिताः समयग्रस्ताः सम्प्रचलिताः सर्वकर्मिकाः बोधिमार्गानुदेशकाः, तथागतकुले मन्त्रप्रवराः उत्तममध्यमेतरतृधासम्प्रयुक्ताः सुशोभनं कर्मफलविपाकप्रदाः शासनान्तर्धानकालसमयसिद्धिं यास्यन्ति । समवशरणं सद्धर्मनेत्रारक्षणार्थं ये साधयिष्यन्ति, तेषां मूल्यप्रयोगेणैव महाराज्यमहाभोगैश्वर्यार्थं ते साधयिष्यन्ति । तेषां क्षिप्रतरं तस्मिं काले तस्मिं समये सिद्धिं यास्यन्ति । अन्ततो जिज्ञासनहेतोरपि साधनीया ह्येते परमहृदयाः संक्षेपतः यथा यथा प्रयुज्यन्ते, तथा तथा सिद्धिं यास्यन्ति समासतः । एषां पटविधानं भवति तस्मिं काले तस्मिं समये महाभैरवे पञ्चकषाये सत्त्वा ( वैद्य 52 ) अल्पपुण्या भविष्यन्ति । अल्पेशाख्याः अल्पजीविनः अल्पभोगाः मन्दवीर्या न शक्यन्ते अतिविस्तरतरं पटविधानादीनि कर्माणि प्रारभन्तुम् । तेषामर्थाय भाषिष्ये संक्षिप्ततरम् ॥
आदौ तावद् विक्रयेण सूत्रकं क्रीत्वा, पलमात्रमर्धपलमात्रं वा, हस्तमात्रं दीर्घत्वेन अर्घहस्तमात्रं तिर्यक्कर्पटं सदशं तन्तुवायेन वाययितव्यम् । अपगतकेशमन्यं वा नवं कर्पटखण्डं प्रत्यग्रमत ऊर्ध्वं पथेप्सतः द्विहस्तचतुर्हस्तं वा षट् पञ्च दश चाष्टं वा सुशुक्लं गृह्य यथेप्सतः चित्रकरेण चित्रापयितव्यम् । अश्लेषकैरङ्गैः चन्दनकर्पूरकुङ्कुमसितैः पटं चन्दनकुङ्कुमकर्पूरं चैकीकृत्य, निष्प्राणकेनोदके निःकलुषेनालोड्य नवे भाण्डे पटं प्लावयित्वा, दिवसत्रयं सुपिधानं पथि तं स्थापयेत् । कृतरक्षां शुचौ देशे आत्मनः शुचिर्भूत्वा, शुक्लपक्षे पूर्णमास्यां पटभाण्डस्याग्रतः पूर्वाभिमुखः कुशविण्डकोपविष्टः इमे मन्त्रपदाः अष्टशतवारमुच्चारयितव्याः । तद्यथा - ओम् हे हे भगवं बहुरूपधरः दिव्यचक्षुषे अवलोकय अवलोकय मां समयमनुस्मर कुमाररूपधारिणे महाबोधिसत्त्व किं चिरायसि । हूं हूं फट् फट् स्वाहा । अनेन मन्त्रेण कृतजापः तत्रैव स्वपेत । स्वप्ने कथयति सिद्धिरसिद्धिं वा ॥
तत उत्थाय अविलम्बितसिद्धिनिमित्तं स्वप्नं दृष्ट्वा तं पटं लिखापयेत्, न चेदसिद्धिनिमित्तानि स्वप्नानि दृश्यन्ते । तत् पटं तस्माद् भाण्डादुद्धृत्य आतपे शोषयेत् । शोषयित्वा च भूयः अन्ये नवे भाण्डे न्यसेत् । सगुप्तं च कृतरक्षं च स्थापयेत् । ततो भूयो तेषां परमहृदयानां अन्यतमं मन्त्रं गृहीत्वा, यथेष्टतः षडक्षराणां भूयो अक्षरलक्षं जपेत् । ततो आशु तत्पटं सिध्यतीति ॥
आदौ तावत् तं पटं गृह्य प्रातिहारकपक्षे अन्ये वा शुक्ले ऽहनि शुभनक्षत्रसंयुक्ते शुभायां तिथौ शुक्लपक्षदिवसे वा सुशोभनैः शकुनैः मङ्गलसम्मतायां रात्रौ अर्धरात्रकालसमये उपोषधिकेन चित्रकरेण तं पटं चित्रापयेत् शुचौ प्रदेशे कर्पूरधूपं दहता ॥
आदौ तावदार्यमञ्जुश्रियं बालदारकाकारं पञ्चचीरकशिरस्कं बालालङ्कारभूषितं कनकवर्णं नीलपट्टचलनिकानिवसितं नीलपट्टांशुकोत्तरीयं धर्मं देशयमानं सिंहासने अर्धपर्यङ्कोपविष्टदक्षिणचरणं रत्नपादपीठस्थं स्थापितसिंहासनोपविष्टं सर्वालङ्कारोपेतं चारुदर्शनं ईषस्मितमुखं साधकगतदृष्टिं चित्रापयेत् ॥
दक्षिणे पार्श्वे आर्यसमन्तभद्रं सितचामरोद्धूयमानं प्रियङ्गुश्यामं वामहस्तचिन्तामणिविन्यस्तं सर्वाङ्गशोभनं सर्वालङ्कारभूषितं नीलपट्टचलनिकानिवस्तं मुक्ताहारयज्ञोपवीतं सिकतं श्वेतपद्मासनस्थं चिअत्रापयितव्यम् ॥
आर्यमञ्जुश्रियस्य वामपार्श्वे आर्यावलोकितेश्वरः नीलपट्टवलनिकानिवस्तः सर्वाङ्गशोभनः सर्वालङ्कारविभूषितः मुक्ताहारयज्ञोपवीतः वामहस्ते श्वेतपद्मविन्यस्तः दक्षिणहस्ते सितोद्धूयमानचमरः हेमदण्डविन्यस्तः सौम्याकारः आर्यमञ्जुश्रियगतदृष्टिः तथैवार्यसमन्तभद्रः श्वेतपद्मासनस्थौ उभावप्येतौ अभिलेख्यौ एकपद्मविटपित्थितौ ॥
त्रीणि पद्मानि । मध्यमे मूलपद्मकर्णिकायामार्यमञ्जुश्रियस्य सिंहासनं रत्नपीठं च । अपरस्मिं पद्मे आर्यसमन्तभद्रः, तृतीये पद्मे आर्यावलोकितेश्वरः । शोभनं च तत् पद्मदण्डं मरकतपद्माकारं अनेकपद्मपुष्पमुकुलितं पत्रोपेतं विकसितार्धविकसितपुष्पमहासरानवतप्तोइत्थितं द्वौ नागराजावष्टब्धनाभं नन्दोपनन्दसन्धारितं तत् पद्मदण्डं सितवर्णा च तौ नागराजानौ सप्तस्फटावभूषितौ सर्वालङ्कारशोभितशरीरौ मनुष्यार्धकायौ अहिभोगाङ्कितमूर्तयः आर्यमञ्जुश्रियं निरीक्षमाणौ जलान्तार्धनिलीनौ मणिरत्नोपशोभितच्छदौ लिखापयितव्यौ ॥
समन्ताच्च महासरं अधस्तात् साधकः दक्षिणपार्श्वे पटान्तकोणे आर्यमञ्जुश्रियस्य वत्क्रमण्डल निरीक्षमाणो धूपकटच्छकव्यग्रहस्तः अवनतशिरकोर्परजानुकायः यथा वेषपर्णतः, तथामभिलेख्यम् ॥
उपरिष्टादार्यमञ्जुश्रियस्य उभौ पतान्तकोणाभ्यां द्वौ देवपुत्रौ मालाधारिणौ पुष्पमालागृहीतौ उत्पतमानौ मेघान्तर्निलीनौ महापुष्पौघमुत्सृजमानौ सुशोभनौ अभिलेख्यौ ॥
समन्ताच्च तत्पटं नागकेसरादिभिः पुष्पैः प्रकिरितमभिलिखेत् । यथेष्टश्च त्रिरूपकाधिष्ठितं वा अभिलिखेत् । आर्यमञ्जुश्रीः धर्मं देशयमानः आर्यसमन्तभद्रः आर्यावलोकितेश्वरश्चमरविन्यस्तपाणयो लिखापयितव्याः । यथाभिरुचितकं वा साधकस्य त्रीणि रूपकाणि अवश्यं लिखापयितव्यानि । यथेष्टाकारा वा यथासंस्थानसंस्थिता वा साधकस्य यथा यथा रोचते तथा तथा लिखितव्यानि ॥
मध्ये व आर्यमञ्जुश्रीः, उभयान्ते च आर्यावलोकितेश्वरः, समन्तभद्रश्च यथेप्सितः अन्य अवश्यं लिखापयितव्यानि । यथालब्धे वा कर्पटखण्डे वितस्तिहस्तमात्रे वा आत्मना वा परेण वा चित्रकरेण पोषधिकेन वा अपोषधिकेन वा श्राद्धेन वा अश्राद्धेन वा शुचिना वा अशुचिना वा शीलवतेन वा दुःशीलेन वा चित्रकरेण लिखापयितव्यः ॥
आत्मना साधकेन अवश्यं कृतपुरश्चरणेन श्राद्धेन उत्पादितबोधिचित्तेन अवश्यं भवितव्यमिति ॥
एवं सिध्यन्ति मन्त्रा वै नान्येषां पापकारिणाम् ।
श्राद्धेन तथा भूत्वा साधनीया मन्त्रदेवताः
सिध्यन्ते मन्त्रराट् तस्य श्राद्धस्यैवेह नान्यथा ।
श्रद्धा हि परमं यानं येन यान्ति विनायकाः
अश्राद्धस्य मनुष्यस्य शुक्लो धर्मो न रोहते ।
बीजानामग्निदग्धानामङ्कुरो हरितो यथा
श्राद्धे स्थितस्य मर्त्यस्य बोद्धारं हि कर्मणा ।
सिध्यन्ते देवतास्तस्य अश्राद्धस्य न सिध्यति
+ + + + + + + + + सर्वमन्त्रा विशेषतः ।
लौकिका देवता ये ऽपि ये ऽपि लोकोत्तरा तथा ।
सर्वे वै श्रद्दधानस्य सिध्यते विगतकल्मषः
आशु सिद्धिर्ध्रुवा तेषां बोधिस्तद्गतमानसाम् ।
नान्येषां कथ्यते सिद्धिः शासने ऽस्मिन् निवारिताः
पटः स्वल्पो विशेषो वा मध्यमो परिकीर्तितः ।
अधुना तु प्रवक्ष्यामि सर्वकर्मसु साधनमिति
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0